________________ सूत्र 7 ] . स्वोपजभाष्य-टीकालङ्कृतम् 325 - भा०-यस्त्विदानी सम्यग्दर्शनज्ञानचरणसम्पन्नो भिक्षुर्मोक्षाय घटमानः कालसंहननायुर्दोषादल्पशक्तिः कर्मणां चातिगुरुत्वादकृतार्थ एवोपरमति स सौधर्मादीनां सर्वार्थसिद्धान्तानां कल्पविमानविशेषाणामन्यतमस्मिन् देवतयोपपद्यते। टी०-यः पुनरधुना दुःखबहुलं संसारमवेक्ष्य तन्निःसरणकृतप्रयत्नः सम्यग्दर्शनज्ञानचरणसम्पन्नो भिक्षुर्मोक्षाय घटमानो-मोक्षार्थकृतोत्साहो दुःषमाकालदोषात् परिपेलवकीलिकासेवार्तसंहननदोषादनेकापायाल्पायुर्दोषाचाल्पशक्तिः-अतीव स्तोकवीर्यः कर्मणां च-मोहनीयादीनामतिगुरुत्वादिति तीव्रानुभावादकृतार्थ एव-अक्षपितकर्माष्टक एव उपरमति कालं करोति स खलूपचितशुभराशिः सौधर्मादीनां द्वादशानां कल्पानां विमानानां च सर्वार्थसिद्धान्तानामन्यतमस्मिन् कल्पे विमाने वा देवत्वायोपपद्यतेदेवत्वेनोपपद्यत इत्यर्थः। भा०--तत्र सुकृतकर्मफलमनुभूय स्थितिक्षयात्प्रच्युतो देशजातिकुलशीलविद्याविनयविभवविषयविस्तरविभूतियुक्तेषु मनुष्येषु प्रत्यायातिमवाप्य पुनः सम्यग्दर्शनादिविशुद्धबोधिमवाप्नोति / अनेन सुखपरम्परायुक्तेन कुशलाभ्यासानुबन्धक्रमेण परं त्रिजेनित्वा सिध्यतीति॥ ___टी०-तत्र-सौधर्मादिषु कल्पेषु विमानेषु वा सुकृतकर्म-पुण्यकर्म तस्य फलं-विपाकमनुभूयायुषः स्थितिक्षयात् प्रच्युतो मगधादावार्यदेशे क्षत्रियादौ मनुष्यजातौ इक्ष्वाकुकुलादिषु शीलवत्सु-सच्चेष्टेषु विद्या-मुक्त्यनुगुणं ज्ञानं विनयः-अभ्युत्थानादिः विभव:धन-धान्य-द्रविणसम्पत् विषयाः-शब्दादयः सर्वेषामेवैषां विस्तरः-प्राचुर्य विस्तर एव विभूतिस्तद्युक्तेषु प्रत्यायातिमवाप्य-जन्म समधिगम्य पुनः सम्यग्दर्शनादिविशुद्ध बोधिमवामोति / सम्यादर्शनमादिर्ययोनिचारित्रयोर्बोधिस्वरूपयोस्तं बोधिमवाप्नोति / ज्ञानचरणे बोधिशब्दवाच्ये समवाप्नोतीत्यर्थः / अनेन-उक्तलक्षणेन कुशलाभ्यासानुबन्धक्रमेण सुखपरम्परायुक्तेन परं-प्रकर्षतस्त्रिर्जनित्वा मनुष्यो देवः पुनर्मनुष्य इति एवं त्रीणि जन्मानि समवाप्य सम्यक्त्वज्ञानलाभादिहितसंवरस्तपसा क्षपितकर्मराशिः सिध्यति सिद्धिक्षेत्र इति / उक्तं च___ "एवं संवरवर्मा, पिनह्य सम्यक्त्ववाहमधिरूढः। सज्ज्ञानमहाचापो-ध्यानादितपःशितपृषकैः ॥१॥-आर्या . 1 'विद्या सूक्तयः' इति च-पाठः /