________________ 324 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 10 भा०--सुखप्रसुप्तवत् केचि-दिच्छन्ति परिनिर्वृतिम् / तयुक्तं क्रियावत्त्वात् , सुखानुशयतस्तथा // 28 // टी०-सुखप्रसुप्तेत्यादि / शोभनेन स्वात्मनः सुखनिद्रया सुप्तवादिच्छन्ति निर्धति तदेतदयुक्तं योगवत्त्वात् क्रियावत्त्वात् तथा सुखानुशयाच्च / अनुशयः प्रकर्षापकर्षत्वम् // भा० -श्रम-क्लम-मद-व्याधि-मदनेभ्यश्च सम्भवात् / मोहोत्पत्तेर्विपाकाच, दर्शननस्य कर्मणः // 29 // टी०-अमेत्यादि / श्रमः-खेदः क्लमो-ग्लानिः मदो-मद्यपानादिजनितः व्याधिःज्वरादिः मदन:-कामसेवनं एभ्यश्च सुखापसुप्तत्वस्य सम्भवात् रत्यरतिभयशोकादिको मोहस्तस्माच सुप्तत्वसम्भवः / दर्शननं-दर्शनावरणकर्म तस्य विपाकात्-उदयात् सुखप्रसुप्तत्वमिति / न चैतानि कारणानि मुक्तानां सम्भवन्ति // 29 // भा०-लोके तत्सदृशो ह्यर्थः, कृत्स्नेऽप्यन्यो न विद्यते। उपगीयेत तद् येन, तस्मान्निरुपमं सुखम् // 30 // टी-लोके इत्यादि / मोक्षसुखसदृशोऽर्थः सकलेऽपि लोके न कचिदस्ति ततोऽनुपम तत् // * भा०-लिङ्गप्रसिद्धः प्रामाण्या-दनुमानोपमानयोः। , __अत्यन्तं चाप्रसिद्धं तद, यत् तेनानुपमं स्मृतम् // 31 // री-लिङ्गेत्यादि / नाप्युपमानं तत्र क्रमते सादृश्याभावात् / सादृश्याख्यं लिङ्गं नास्ति मोक्षसुखस्य / नाप्यनुमानस्य मुक्तिसुखं गोचरीभवति / यस्मात्तस्य प्रामाण्यं लिङ्गप्रसिद्धेः कारणात् / पक्षधर्मान्वयव्यतिरेक्येव लिङ्गम् / न चास्ति तादृशो मोक्षसुखप्रतिपत्तावित्यतो नाप्यनुमेयम् // 31 // भा०-प्रत्यक्षं तद्भगवता-मर्हतां तैश्चै भाषितम् / / गृह्यतेऽस्तीत्यतः प्राज्ञै-नै छद्मस्थपरीक्षया // 32 // इति टी-प्रत्यक्षमित्यादि / अर्हतां सर्वज्ञानामेव तत् प्रत्यक्षं प्रत्यक्षीकृत्य च तैर्यथावद् भाषितं-व्यपेतरागद्वेषमोहैः श्रद्धेयवाक्यैः सर्वज्ञेरेव तदाख्यातम् / अतः सर्वज्ञप्रणीतागमप्रामाण्यात् तदस्तीति गृह्यते। प्रज्ञाऽसामर्थ्यान छद्मस्थपरीक्षया आगमव्यतिरिक्तैश्च छअस्थप्रत्यक्षादिभिः परीक्ष्यमाणं न जातुचिदुपलभ्यत इति // 32 // एवमनुपममव्यावाधं च शाश्वतं स्वाभाविक मुक्तिसुखमनुभवति क्षपितसकलकर्मजालः / 1. उपनीयते ' इति ग-पाठः /