________________ सू७] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 323 मा०-तादात्म्यादुपयुक्तास्ते, केवलज्ञानदर्शनैः। सम्यत्तवासिद्धतावस्था, हेत्वभावाच निष्क्रियाः॥२१॥-अनु० री० तादात्म्येत्यादि। स आत्मा स्वभावो येषां ते तदात्मानः तद्भावस्तादात्म्यं तस्मात् केवलज्ञानदर्शनस्वभावात् सदैव उपयुक्ताः क्षायिकसम्यक्त्वसिद्धतावस्थाः / हेत्वभावाच्च निष्क्रियाः क्रियापरिणाम प्रति न किश्चित् तेषामस्ति निमित्त मिति // 21 // भा०-ततोऽप्यूर्ध्वगतिस्तेषां, कस्मानास्तीति चेन्मतिः। धर्मास्तिकायस्याभावात् स हि हेतुर्गतेः परः // 22 // टी-ततोऽप्यूर्ध्वमित्यादि / लोकान्तात् परतोऽपि गतिस्तेषां कस्मान भवतीति चेत् गतेहेतुर्धर्मास्तिकायः परः-प्रधानमपेक्षाकारणं तदभावान्न परतो गतिः // 22 / / भा०-संसारविषयातीतं, मुक्तानामव्ययं सुखम् / अव्याबाधमिति प्रोक्तं, परमं परमर्षिभिः // 23 // ___टी०-संसारेत्यादि / संसारविषयमतीतं मुक्तानां सुखमव्ययत्वाद् विगतल्यावा परम-प्रकृष्टं परमर्षिभिः-तीर्थकरादिभिरभिहितम् // 23 // . भा-स्यादेतदशरीरस्य, जन्तोनष्टाष्टकर्मणः / कथं भवति मुक्तस्य, सुखमित्यत्र 'मे शणु // 24 // टी०–स्यादेतदित्यादि। नष्टाष्टकर्मणो विगतयोगत्रयस्य कथमकरणल सुखसम्भव इत्यत्र मे शृणु // 24 // भा०-लोके चतुविहार्थेषु, सुखशब्दः प्रयुज्यते। -विषये वेदनाभावे, विपाके मोक्ष एव च // 25 // री-लोके इत्यादि। प्रतीतिं दर्शयति / सुखे विषयः शब्दादिः तथा दुःखवेदनमा थाभावे, कर्मविपाके च सद्वेदनीयादिके / तथा सकलकर्मक्षयलक्षणे च मोक्षे // 25 // उदाहरणानि यथाक्रमं दर्शयतिभा०-सुखो वह्निः सुखो / -विषयेष्विह कथ्यते। दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते // 26 // *०-सुखो वह्निरित्यादि / उदाहरणानि यथाक्रमं दर्शयति // 26 // भा०-पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम् / कर्मक्लेशविमोक्षाच, मोक्षे सुखमनुत्तमम् // 27 // दी०-पुण्यकर्मेत्यादि / गतार्थावेतौ श्लोकौ // 27 // संशण' इति ग-पाठः। 2 'गतार्थावेव' इति ज-पाठः /