________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 10 स्ववशस्यानमिसन्धे-श्च तस्य न च विग्रहा गतिर्भवति / भवति हि विग्रहगमनं, कर्मवशस्यार्थिनश्चेह // 5 // - आर्या अपि चानुश्रेणिगति-जर्जीवानां चैव पुद्गलानां च / स्वाभाविकीष्यते ये--न तेनं सा विग्रहा सिद्धा // 6 // -" सिद्धस्य गतिरयुक्ता, स्ववशत्वान्निःप्रयोजनत्वाच्च / / नो सिद्धावयुक्ता, कर्मविमुक्तस्य निःपततः // 7 // -" बन्धविमोक्षात् सङ्ग-त्यागात् पूर्वप्रयोगतो वाऽपि / . ननु गच्छतोऽन्यवशता न च मुक्तोऽभीष्यते विवशः // 8 // -" इत्येवं विप्रलापो--ऽस्पृष्टगतौ नान्तरास्ति यत्कालः / सत्यां हि सोत्तराव--स्थायां स्यात् सिद्ध इतरो वा // 9 // -" सोऽस्पृष्टया हि गत्या-ऽनन्तरमेव समये जगच्छिखरम् / .. अवगाहतेतरां ते--न नास्ति ननु भो बजत्कालः // 10 // -" सिध्यति गत्वा ह्यात्मा, सिद्धिक्षेत्रेऽपहाय देहमिह / / नह्यन्तराऽस्ति सिद्धि--नोसिद्धिश्वास्ति मुक्तस्य // 11 // -n स्ववशस्यानभिसन्धेः, कृतकृत्यस्य च यथा स्वभावेन। तस्योपयोग इष्ट--स्तथा गतिः सा स्वभावेन // 12 // " अथ यस्याः पृथिव्या उपरि मुक्तानामवस्थानं सा किंस्वरूपेत्याहभा०—तन्वी मनोज्ञा सुरभिः, पुण्या परमभास्वरा / प्रारभारा नाम वसुधा, लोकमूर्ध्नि व्यवस्थिता ॥१९॥-अनु० की-तन्वीत्यादि / मध्ये योजनाष्टकबहला प्रदेशपरिहाण्या चोपर्युपरि मक्षिकापत्रात् तनुतरा पर्यन्तेऽतितन्वी मनोज्ञेत्यन्तरुचिरा सुरभिः-इष्टगन्धा पुण्यवद्भिः पृथिवीकायिकनिर्वर्तिता पुण्या भृशं भासनशीला प्राग्भारेति नाम तस्याः। सा च लोकमूर्धनि व्यवस्थिता // 19 // भा०-वृलोकतुल्यविष्कम्भा, सितच्छत्रनिभा शुभा। ऊवं तस्याः क्षितेः सिद्धा, लोकान्ते समवस्थिताः // 20 // अनु० टी०-नृलोकेत्यादि / नृलोकेऽर्धतृतीयद्वीपा मानुषोत्तरमहीधरपरिक्षिप्ता तत्तुल्यविकम्मा, पश्चचत्वारिंशद्योजनलक्षविस्तरेत्यर्थः / उत्तानीकृतसितच्छन्त्रकाकृतिः शुभरूपाचात्मिका शुभा तस्याः क्षितरुपरि लोकान्तस्पृशां सिद्धानामवस्थानम् // 20. 'स्याधिन' इति ज-पाठः। 2 'येन सेम (१)सा विग्रहा.' इति ज-पाठः।-३ 'मो सिद्धता पशासि ग-पाठः। 4 'भीष्यति' इति ज-पाठः। ५'सुरभिगम्धा ' इति ज-पाठः।।