________________ सूत्र 7 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 321 - भा०-अतस्तु गतिवैकृत्य-मेषां यदुपलभ्यते / कर्मणः प्रतिघाताच, प्रयोगाच्च तदिष्यते // 15 // री०-अतस्त्वित्यादि / अस्मादुक्तप्रकारादन्यथा गतिवैकृत्यं यद् भवति गतिविकाररूपं तत् कर्मणः-क्रियायाः प्रतिघाताद् गिरिभित्त्यादेः प्रयोगाच पुरुषेच्छानुविधानादिष्यते सर्वम् // 15 // मा०-अधस्तिर्यगथोषं च, जीवानां कर्मजा गतिः। ऊर्ध्वमेव तु तद्धर्मा, भवति क्षीणकर्मणाम् ॥१६॥-अनु० टी-अध इत्यादि। सर्वतो गतिर्जीवानामधस्तिर्यगृवं च कर्मजा गतिः। क्षीणकर्मणां तूर्ध्वमेव गतिस्तद्धा सा स्वाभाविकी गतिधर्मो येषामिति // 16 // मा०-द्रव्यस्य कर्मणो यब-दुत्पत्त्याऽऽरम्भ-'वीतयः। समं तथैव सिद्धस्य, गति-मोक्ष-भवक्षयाः ॥१७॥-अनु० टी०-द्रव्यस्येत्यादि / द्रव्यस्य-परमाण्वादेः कर्मणः-क्रियाया यथोत्पत्तिरारम्भो गतिश्च सम-युगपत् तथा सिद्धस्य गतिमोक्षभवक्षयाः गतिः मुक्तिर्मोक्ष:-स्वात्मन्यवस्थानं भवक्षयो-जन्मक्षयः संसारक्षयो वेति // 17 // भा०-उत्पत्तिश्च विनाशश्च, प्रकाश-तमसोरिह। युगपद् भवतो यद्वत्, तथा निर्वाण-कर्मणोः ॥१८॥-अनु० ट-उत्पत्तिश्चेत्यादि / प्रकाश तमसोर्यथा युगपदुत्पत्ति-विनाशौ / यस्मिन् काले प्रकाश उत्पद्यते तस्मिन्नेव काले तमसो विनाश इति युगपद् एवं निर्वाणं कर्मक्षयत्येक एष कालः / तथाऽन्यत्राप्युक्तम् सं ततो बन्धनमोक्षाचं जीवः प्रवेगतो याति / न त्वैरण्डकबीज, बन्धनमुक्तं व्रजत्यूर्ध्वम् // 1 // आर्या सङ्गत्यागाद् वा लघु-रात्मा भूत्वा स उत्पतत्यूर्ध्वम् / न तु गतलेपालाबू-रुदयाति जले निमग्नाऽपि // 2 // -, ध्यानेन तथा चात्मा, प्रयोजितो येन स व्रजत्यूर्ध्वम् / तिष्ठासुरपि न शक्तः, प्रवेगितो ननु नरः स्थातुम् // 3 // " अपि चामेखि गमनं, स्वाभाविकमूर्ध्वमात्मनस्तस्य / आत्मामिशिखाया गति रन्या कर्मानिलवशाद्धि // 4 // " १वचयः' इति ग-पाठः / २'उत्पत्तिरित्यादि ' इति च-ज-पाठः। 3 ‘स सततो' इति च-ज-पाठः।