________________ 320 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 10 भा०-तदनन्तरमेवोर्ध्व-मालोकान्तात् स गच्छति / पूर्वप्रयोगासङ्गत्व-बन्धच्छेदोर्ध्वगौरवैः ॥९॥-अनु० टी०- तदनन्तरेत्यादि / सकलकर्मक्षयसमनन्तरमालोकान्तादूर्ध्व स गच्छति। कथं मुक्तस्य गतिरित्यारेकायामिदमाह-पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदादूवंगौरवाच गतिरस्य भवति सिद्धा // 9 // पूर्वप्रयोगस्योदाहरणानि दर्शयतिभा०-कुलालचक्रे दोलाया-मिषौ वापि यथेष्यते / पूर्वप्रयोगात् कर्मेह, तथा सिद्धिगतिः स्मृता ॥१०॥-अनु० टी०- कुलालेत्यादि / पूर्वप्रयोगात् कर्म-क्रिया यथा कुलालचक्रादिषु तथा सिद्धगतिः स्मृता // 10 // भा०-मृल्लेपसङ्गनिर्मोक्षाद्, यथा दृष्टाऽप्स्वलाबुनः / कर्मसङ्गविनिर्मोक्षात्, तथा सिद्धिगतिः स्मृता ॥११॥-अनु० टी-मृल्लेपेत्यादि / अलाबुनोऽपसून्मजनं दृष्टं मृल्लेपसङ्गनिर्मोक्षात् एवं कर्माष्टकसङ्गत्यागात् सिद्धगतिः सिद्धा // 11 // .. भा०- एरण्डयन्त्रपेडासु, बन्धच्छेदाद् यथा गतिः। , कर्मबन्धनविच्छेदात्, सिद्धस्यापि तथेष्यते ॥१२॥-अनु० टी-एरण्डेत्यादि / व्याघ्रपादबीजबन्धनच्छेदाद् यन्त्रबन्धनच्छेदाद् पेडाबन्धनछेदाच गतिर्दृष्टा मिञ्जाकाष्टपेडापुटानामेवं कर्मबन्धनविच्छेदात् सिद्धस्य गतिः // 12 // भा०-ऊर्ध्वगौरवधर्माणो, जीवा इति जिनोत्तमैः।। अधोगौरवधर्माणः, पुद्गला इति चोदितम् // 13 // - अनु० टी-ऊर्वेत्यादि / ऊर्ध्वगमन एव गौरवं धर्मः-स्वभावो जीवानाम् पुद्गलास्त्वधो गमनधर्माण इति सर्वज्ञवचनम् // 13 // भा०-यथाऽधस्तियंगूर्व च, लोष्टवाय्वग्निवीतयः। स्वभावतः प्रवर्तन्ते, तथोच गतिरात्मनाम् ॥१४॥-अनु० टी०-यथेत्यादि / यथाक्रममधोगमनादि / लोष्टानां वीतयो-गतयः स्वभावादेवजायन्ते तयोर्ध्वगतिरात्मनाम् // 14 // १'चापि ' इति घ-पाठः / 2 स्मृताः' इति ज-पाठः / 3 'ऊर्ध्वमित्यादि' इति ज-पाठः। 4 'वीचया' इति ग-पाठः। 5 ‘स्वभावगतिरात्मनः' इति ग-पाठः। 6 'लोष्टत्ववीचयो' इति ग-पाठः।।