________________ सूत्र 7 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०—पूर्वार्जितं क्षपयतो, यथोक्तैः क्षयहेतुभिः / संसारबीजं कात्स्न्ये न, मोहनीयं प्रहीयते // 2 ॥-अनु० टी०-पूर्वेत्यादि / प्राक्तनं कर्म क्षपयतस्तपोऽनुष्ठानादिभिः क्षयितृभिः संसारतरो/जं समस्तमेव मोहनीयं प्रहीयते क्षपकश्रेण्याम् // 2 // भा०-ततोऽन्तरायज्ञानघ्न-दर्शनघ्नान्यनन्तरम् / प्रहीयन्तेऽस्य युगपत्, त्रीणि कर्माण्यशेषतः ॥३॥-अनु० टी-तत इत्यादि।अन्तराये ज्ञानदर्शनावरणयोश्च क्षीणयोर्युगपत् अशेषतः॥३॥ भा०-गर्भसूच्यां विनष्टायां, यथा तालो विनश्यति / तथा कर्म क्षयं याति, मोहनीये क्षयं गते ॥४॥-अनु० टी०-गर्भसूच्यामित्यादि / मस्तकसूच्यां ध्वस्तायां सर्वात्मना विनाशमुपैति सकलस्तालतरुः, एवं मोहनीये क्षीणे शेषं कर्म क्षयमेति सर्वम् // 4 // भा०-ततः क्षीणचतुःकर्मा, प्राप्तोऽथाख्यातसंयमम् / . बीजबन्धननिर्मुक्तः, स्नातकः परमेश्वरः // ५॥-अनु० ___टी०-तत इत्यादि / क्षिप्तसकलघातिकर्मा यथाख्यातसंयममनुप्राप्तो बीजषन्धनेन-मोहनीयादिना विमुक्तः स्नातकोऽन्तर्मलापगमात् परमेश्वर:-केवलार्द्धप्राप्तः // 5 // भा०-शेषकर्मफलापेक्षः, शुद्धो बुद्धो निरामयः / सर्वज्ञः सर्वदर्शी च, जिनो भवति केवली ॥६॥-अनु० टी-शेष इत्यादि / वेदनीयादिकर्मफलापेक्षः शुद्धो मोहादिमलापगमात् बुद्धः केवलज्ञानावाप्तेनिरामयो-निर्गताशेषरोगनिदानः केवली भवति // 6 // भा०—कृत्स्नकर्मक्षयादूर्व, निर्वाणमधिगच्छति / ___यथा दग्धेन्धनो वह्नि-निरुपादानसन्ततिः // 7 // अनु० टी--कृत्स्नेत्यादि / सकलकर्मकलङ्कनिर्मुक्त ऊर्ध्वमेव निर्वाणमधिगच्छति / निर्वृतस्य स्थानमप्युपचारानिर्वाणम् / अथवा निर्वाणं-निवृतत्वं सिद्धत्वं प्रक्षिप्तपदग्धेन्धनो वहिरिव निरुद्धकाष्ठाधुपादानसन्ततिः // 7 // भा०—दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः। कर्मबीजे तथा दग्धे, नारोहति भवाङ्कुरः // ८॥-अनु० टी०-दग्धे इत्यादि / बीजेऽत्यन्तं-भस्मसात्कृते नाङ्कुरस्य प्रादुर्भावः, एवं कर्मबीजे ध्वस्ते संसाराङ्कुरस्याप्रादुर्भावः // 8 //