________________ 318 तस्वार्थाधिगमसूत्रम् [ अध्यायः 10 भा०-संसारसुखमतीत्यात्यन्तिकमैकान्तिकं निरुपम नित्यं निरतिशय निर्वाणसुखमेवामोतीति // 7 // टी०-संसारसुखमतीत्यात्यन्तिकं साद्यपर्यवसानमैकान्तिक एकान्तेनैव भवति. न कदाचिन्न भवतीत्यर्थः / निरुपममिति नास्ति इह किश्चित् तस्योपमानं तत्सदृशमिति / निरतिशयमिति' नास्यातिशयः प्रकर्षापकर्षलक्षणो विद्यते, सर्वमुक्तानां तुल्यत्वात् / नित्यमिति ध्रुवं कूटस्थमविचालि निर्वाणसुखमवामोतीति। . सत्कारार्हः सततं, निरुत्सुको निर्भयो विरुग विगदः। निःप्रणयो निषो, निर्द्वन्द्वो नीरजा वितनुः ॥१॥-आर्या संसारामिं निर्वा-प्य दहन्तं परमसौख्यसलिलेन / निर्वाति स्वात्मस्थो, गतजाति-जरा-मरण-रोगः // 2 // -, व्याबाधाभावाच्च स, सर्वज्ञत्वाच्च भवति परमसुखी। व्याबाधाभावो नु, स्वस्थस्य ज्ञस्य ननु सुसुखम् // 3 // -, अनुपमममेयमव्यय-मनघं शिवमजरमरुजमभयतृषम् / एकान्तिकमात्यन्तिक-मव्याबाधं सुखं ह्येतत् // 4 // -, त्रिष्वपि कालेषु सुखा-नि यानि तिया-मनुष्य-देवानाम् / सवोणि तानि न समा-नि तस्य मात्रा सुखेनापि // 5 // -, तानि हि रागोत्प्लोषा-ण्याबाधापूर्वकाणि च सुखानि / नास्ति रागमपवि-ध्य तत्र किश्चित् सुखमपृक्तम् // 6 // -, एवं क्षायिकसम्यक्-त्वं वीर्य-सिद्धत्व-दर्शन-ज्ञानैः / आत्यन्तिकैः स युक्तो, निद्वन्द्वेनापि च सुखेन // 7 // -, सम्प्रत्येनमेव शास्त्रार्थ श्लोकैरुपसंहरति, द्विर्बद्धं सुबद्धं भवतीति // भा०-एवं तत्त्वपरिज्ञानाद्, विरक्तस्यात्मनो भृशम् / निरास्रवत्वाच्छिन्नायां, नवायां कर्मसन्ततौ ॥१॥-अनु० टी-एवमित्यादि / उक्तनीत्या यानि जीवादीनि तत्त्वानि तत्परिज्ञानाद् विरक्तस्य-विषयसुखवितृष्णस्य भृशमात्मनः स्थगितास्रवद्वारत्वाद् विच्छिन्नायामभिनवकर्मसन्तती-कर्मसन्ताने // 1 // 'वाप्नोति' इति ग-पाठः / 2 'पुलाकादिस्वातिशयः' इत्यधिको ज-पाठः / 3 'स्वस्य शस्यापि' इति - पाठः। 4 'कं निरुपमं ' इति घ-पाठः। 5 'मामि' इति ज-पाठः, च-पाठस्तु 'नाभि'।