________________ सूत्रं 7 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 317 यत्किंचित् पदवाक्यार्थादि गृहीतं तन्न कदाचिनश्यतीति, कोष्ठप्रक्षिप्तधान्यवत् / बीजबुद्धित्वं स्वल्पमपि दर्शितं वस्तु अनेकप्रकारेण गमयति / तद्यथा पदेन प्रदर्शितेन प्रकरणेनोद्देशकादिना सर्वमर्थ ग्रन्थं चानुधावति / परचित्तं जानाति / अभिलषितमर्थं प्राप्नोत्येवं अनिष्टं च नैवाप्नोति / एवमादयोऽतिशयाः शुभानुभावादपरिमितास्तस्य तस्यामवस्थायां प्रादुःष्यन्तीति॥ भा०-वाचिकं क्षीरासवित्वं मध्वास्रवित्वं वादित्वं सर्वस्तज्ञत्वं सर्वसत्त्वावबोधनमित्येतदादि / तथा विद्याधरत्वमाशीवियत्वं भिन्नाभिन्नाक्षरचतुर्दशपूर्वधरत्वमिति // टी-वाचिकमप्यतिशेयवत्त्वम् / तस्य क्षीरास्रवित्वं शृण्वतस्तदीयवचनं क्षीरमिव स्वदते / एवं मध्वात्रवित्वम् / विद्वत्संसन्मध्येष्वपराजितत्वं वादित्वम् / सर्वेषां म्लेच्छमृग-पशु-पक्षिप्रभृतीनां रुतार्थज्ञत्वम् / सर्वान् सत्त्वानबुद्धिकानपि बोधयतीति सर्वसत्त्वावबोधनम् / आदिग्रहणादिक्षुरसावित्वादिग्रहणम् / तथा विद्याधरत्वं महाविद्याः सर्वा एव तस्य तदा स्वयमेवोपतिष्ठन्ते / आशीविषत्वं कर्मजातिभेदादनेकप्रकारम् / भिन्नाक्षराणि किश्चिन्यूनाक्षराणि चतुर्दश पूर्वाणि सम्पूर्णानि वा तद्धारणत्वम् // भा०-ततोऽस्य निस्तृष्णत्वातू तेष्वनभिष्वक्तस्य मोहक्षेपकपरिणामावस्थस्याष्टाविंशतिविधं मोहनीयं निरवशेषतःप्रहीयते। ततश्छद्मस्थवीतरागत्वं प्राप्तस्यान्तमुहूर्तेन ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणि युगपशेषतः प्रहीयन्ते / ततः संसारबन्धबीजबन्धननिर्मुक्तः फलबन्धनमोक्षापेक्षा यथाख्यातसंयतो जिनः केवली सर्वज्ञः सर्वदर्शी शुद्धो बुद्धः कृतकृत्यः स्नातको भवति / ततो वेदनीय-नामगोत्राऽऽयुष्यक्षयात् फलबन्धननिर्मुक्तो निर्दग्धपूर्वोपात्तेन्धनो निरुपादान इवाग्निः पूर्वोपात्तभववियोगात् हेत्वभावाच्चोत्तरस्याप्रादुर्भावाच्छान्तः // टी-ततोऽस्येत्यादि / तेषु-अतिशयेष्वनभिष्वक्तस्य-अनुपजातगाद्धर्यस्य मोहक्षपकपरिणामावस्थस्येति / अविरतसम्यग्दृष्टयादिस्थानवर्तिनो मोहक्षपणाभिमुखस्य श्रेण्या निरवशेषमोहक्षये सति ज्ञानावरणादिप्रहाणे च संसारबीजबन्धनं मोहज्ञानावरणादि तेन निमुक्तः केवली भवति / ततश्च फलबन्धनं वेदनीयादिचतुष्कं तन्मोक्षणापेक्षस्तेनापि वेदनीयादिना अशेषफलबन्धनेन विमुक्तो ध्यानाग्निनिर्दग्धपूर्वोपात्तकर्मेन्धनो निरिन्धन इवाग्निः पूर्वोपातो भवः-औदारिकादिकायस्तद्वियोगादुत्तरस्य च कायस्य 'हेत्वभावात् संसारे पुनरप्रादुर्भावाच्छान्तः परमाहादमुपगतः कारणापेक्षम्__ 1 ‘शयत्वम् ' इति ज-पाठः। 2 'क्षय' इति ङ-पाठः। 3 'बन्धनिर्मुक्तः' इति घ-पाठः / 4 'हेतुभावात्' इति ङ-च-पाठः /