________________ 316 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 10 कर्मोपचयः। कर्मणां चानुभावतः सम्यग्दृष्टयादिगुणस्थानानां केवलिपर्यन्तानाम: सङ्ख्येयगुणोत्कर्षप्राप्त्या पूर्वोपचितकर्मनिर्जरणात् सामायिकायुपलम्भात् पुलाकादिस्थानावाप्तेर्व्यपेतार्तध्यानरौद्रध्यानो धर्मध्यानविजयाभ्यासादवाप्ताघशुक्लध्यानद्वयस्य नानाविधा लब्धय उत्पद्यन्ते / स्वहस्तपादावयवपरामर्शमात्रेणैव सर्वरोगापनयनसामर्थ्यमामशीष धित्वम् / तदीयमूत्रपुरीपावयवसम्पर्काच्छरीरनैरुज्यं विद्युडौषधित्वम् / तथा सर्व एव तदीयावयवा दुःखार्तानामौषधीभवन्तीति सर्वोषधित्वम् / अभिव्याहारसिद्धिर्वामात्रेणैव / शापदानसामर्थ्य मनुग्रहण सामर्थ्य च / ईशित्वं सर्वभूतेश्वरत्वम् / वशित्वं सर्वभूतानि स्ववशवर्तीनि / तथाऽवधिज्ञानमेकरूपं वैक्रियशरीरकरणं तदेव च दर्शयत्यणिमादिविशिष्टम् // भा०-जङ्घाचारणत्वं येनाग्निशिखाधूमनीहारावश्यायमेषवारिधारामर्कटतन्तुज्योतिष्करश्मिवायूनामन्यतममप्युपादाय वियति गच्छेत् / वियद्गतिचारित्वं येन वियति भूमाविव गच्छेत् शकुनिवच्च प्रडीनावडीनगमनानि कुर्यात् // टी०-जवाचारणत्वमग्निशिखाधूमाद्यपि निश्रित्य व्योग्नि गच्छेत्। मर्कटतन्तुः कोलिककोर्शकृततन्तुः / अपरं वियद्गतिचारणत्वं निर्निश्र एव विस्रब्धो भूमाविव व्योनि गच्छेत्। यथा च शकुनिर्वियति प्रडीनम्-उपरिष्टाद् गमनं अवडीनम्-अधस्ताद् गमन करोत्येवमसावपि कुर्यात् // ... भा०-अप्रतिपातित्वं पवतमध्येन वियतीव गच्छेत् / अन्तर्धानमदृश्यो भवेत् / कामरूपित्वं नानाश्रयानेकरूपधारणं युगपदपि कुर्यात् / तेजोनिसर्गे सामर्थ्यमेतदादि / इति इन्द्रियेषु मतिज्ञानविशुद्धिविशेषाद् दारात् स्पर्शना-55स्वादन-घाण-दर्शन-श्रवणानि विषयाणां कुर्यात् / सम्भिमज्ञानत्वं युगपद्नेकविष. यपरिज्ञानमित्येतदादि / मानसं कोष्ठबुद्धित्वं बीजबुद्धित्वं पदप्रकरणोद्देशाध्यायप्राभृतवस्तुपूर्वाङ्गानुसारित्वं ऋजुमतित्वं विपुलमतित्वं परचितज्ञानमभिलषितार्थप्राप्तिमनिष्टानवाप्तिमित्येतदादि // टी०-गच्छन् पर्वतमित्यादिभिरपि न प्रतिहन्यत इत्यप्रतिपातित्वम् / अन्तर्धानम्-अदृश्यत्वम् / युगपदनेकरूपधारणं कामरूपित्वम् / तेजोलेश्यामोक्षणम् आदिग्रहणात् शीतलेश्यानिसर्गशक्तिः / मतिज्ञानविशुद्धिप्रकर्षाद् विषयाणां-रूपादीनां देशप्रमाणनियमोल्लङ्घनेनापि ग्रहणं कुर्यात् / युगपदनेकविषयग्रहणं सम्भिन्नज्ञान त्वम् / आदिग्रहणादिन्द्रियव्यत्यासेनापि विषयग्रहणसामर्थ्यम् / मानसं-मनोव्यापारजातम् / कोष्ठवुद्धित्वं १'कर्मोच्चयः' इति ग-पाठः / 2 'जयादभ्या' इति ग-पाठः। 3 'निश्चित्य' इति ग-पाठः / ' कोशिकतन्तु: ' इति ग-पाठः / 5 'दूरात्' इति ग-पाठः / 6 'सस्भिन्नत्वम् ' इति ग-पाठः। .