________________ मूत्रं 5] स्वोपनभाष्य-टीकालङ्कृतम् "न य तस्स तन्निमित्तो बंधो सुहुमोवि देसितो समए ।"-ओघ० गा० 749 _ "सुद्धस्म उ संपत्ती अफला वुत्ता जिणवरेहिं / " तदेवं सकषायाकषाययोर्योगस्य यथाक्रमं साम्परायिकर्यापथयोः कर्मणोरास्रवो भवति / कर्मग्रहणमास्रवग्रहणं चानुवर्तते / एनमेवार्थ भाष्येण स्पष्टयति भा०–स एष त्रिविधोऽपि योगः सकषायाकषाययोः साम्पआस्रवस्य वैविध्यम् रायिकेर्यापथयोरास्रवो भवति, यथासङ्ख्यं यथासम्भवं च सकषायस्य योगः साम्परायिकस्य / अकषायस्येर्यापथस्यैवैकसमयस्थितेः // 5 // टी-स एष त्रिविधोऽपि योग इत्यादि / प्रकृतोपयोगाभिसम्बन्धार्थस्तच्छब्दः, एष इत्युपदर्शनार्थः / स एष योगः शुभाशुभभेदस्त्रिविधोऽपि-मनोवाकायलक्षणः / अपिशब्दाद् व्यस्तः समस्तो वा सकपायस्य कर्तुःसाम्परायिकस्य-संसारपरिभ्रान्तिकारणस्य कर्मण आस्रवो भवति / यथोक्तम्-" पंढमे समए बद्धपुहा बितिए समए वेदिता ततिए समए निजिण्णा सेआले अक़म्मं वावि भवति" (इति) पारमार्षवचनात् त्रिसमयावस्थान एव वेदितव्यः / सकषायाकषाययोर्द्वयोरपि साम्परायिककर्मबन्धाशङ्कायामीर्यापथकर्मबन्धारेकायां च द्वयोरपीदमाह-यथासङ्ख्यमिति / यथाक्रमं सकषायस्य साम्परायिककमोस्रवः / यथासम्भवमिति / यस्य यावान् योगः सम्भवत्येकेन्द्रियाणां तावत्काययोगः द्वित्रिचतुरिन्द्रियासहिपश्चेन्द्रियाणां कायवाग्योगौ संज्ञिपञ्चेन्द्रियाणां मनोवाकाययोगः अकषायस्य संज्वलनवतिनः उपशान्तकषायक्षीणमोहयोश्च मनोवाकाययोगाः केवलिनो वाकाययोगावित्येवं यथासम्भवग्रहणं समर्थितं भवति / योगो व्याख्येय इत्यनुकर्षणार्थश्चशब्दः / एतदेव यथासंख्यक दर्शयति भाष्येण-सकषायस्येत्यादि / सकषायस्य योगः साम्परायिकस्य कर्मण आस्रवः, अकषायस्योपथस्यैवास्रवो न साम्परायिकस्यापीति, एकसमयस्थितेरिति एकस्मिन् समये स्थितिः-अवस्थानं यस्य कर्मण इति / भाषितपुंस्कत्वादेवं निर्देशः / वेद्यमानकर्मसमयो मध्यमः स एव स्थिति:-कालः / आयो बन्धसमयस्तृतीयः परिशाटसमय इति // 5 // साम्परायिकश्चर्यापथश्च द्विविधोऽभिहित आस्रवस्तत्र साम्परायिककर्मास्रवभेदाः कियन्त इत्युच्यते 1-2 छाया न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये। शुद्धस्य तु सम्पत्तिरफलोका जिनवरैः / ३'प्रथमे समये बद्धस्पृष्टा द्वितीये समये वेदना तृतीये समये निर्जरणं, एष्यत्कालेऽकर्म पाऽपि भवति / 4 'मार्षाद वचनाद' इति क-पाठा /