________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 6 कीर्तिनिर्माणतीर्थकरनामानि / शेषा यशीतिः प्रकृतीनां पापमुच्यते। पञ्च ज्ञानावरणानि, नव यशीतिः पापप्रकृतयः ....दर्शनावरणानि, असद्वेद्यं, षड्विंशतिधा मोहनीयं सम्यक्त्वसम्यग्मिथ्या त्वप्रकृतिद्वयवर्जितम् / यस्मादनयोर्बन्धो नास्ति / मिथ्यात्वमेव ह्येकं बद्धं तथा परिणमते, नरकायुः नीचेर्गोत्रं पञ्चविधमन्तरायं, नरकगति नरकगत्यानुपूर्वी, चतस्रो जातयः संहननसंस्थानानि दश अप्रशस्तवर्णादिचतुष्कं उपघातनाम अप्रशस्तविहायोगतिस्थावरसूक्ष्मापर्याप्तकसाधारणस्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनामानि / तदेवं शुभाशुभी योगी पुण्यापुण्ययोरास्रवौ यथाक्रममेव भवतः, न व्यतिरेकेणेति निरूपितम् // 4 // ___आस्रवाधिकारमपेक्षमाणः प्रश्नयति-किमयमास्रवः संसारिणां समानफलारम्भहेतुर्भवत्याहोस्विदन्यस्यान्यादृशोऽन्यस्य वाऽन्यथेति ? / उच्यते-प्राणिनामानन्त्येऽपि उभयथाऽऽत्ममेदसामर्थ्याद् भवत्यास्रवः॥ सूत्रम्-सकषायाकषाययोः साम्परायिकर्यापथयोः॥ 6-5 // टी०–कषः-कर्म भवेत् तस्य आयो-लाभः-प्राप्तिः कषायः क्रोधादिभेदः कर्महेतु भवहेतुर्वा, सह कषायेण वर्तत इति सकषायः, अविद्यमानः कषायोऽसूत्रगतशब्दानां कषायः / इतरेतरयोगद्वन्द्वात् षष्ठीद्विवचनमनित्यत्वानियमस्य, आहिव्युत्पत्तिः ताग्न्यादित्वाद् वा कामतः पूर्वनिपातः, बहुवक्तव्यत्वाद् वाऽभ्यर्हित __त्वादुभयोरपि पूर्वनिपातः / सम्परैत्यसिन्नात्मेति सम्परायः-चातुर्गतिकः संसारः / समित्ययं समन्ताद्भावे सङ्कीर्णादिवत् परा भृशार्थे सम्परायवे च, स सम्परायः प्रयोजनमस्य कर्मणः साम्परायिक-संसारपरिभ्रमणहेतुः / ईरणमिर्या गतिरागमानुसारिणी / विहितप्रयोजने सति पुरस्ताद् युगमात्रदृष्टिः स्थावरजङ्गमाभिभूतानि परिवर्जयनप्रमत्तः शनैर्यायात् तपस्वीति सैवंविधा गतिः पन्था-मार्गः प्रवेशो यस्य कर्मणस्तदीयांपथं, एवंविधगतिः उपादानं कर्मकषायस्य, गतिरत्रोपलक्षणमात्र, योगमात्रप्रत्ययत्वात, गच्छतस्तिष्ठतो वा त्रिसमयस्थितिको भवत्यकषायस्य बन्धः / अकपायो वीतरागः सरागश्च / तत्र वीतरागस्त्रिविधः-उपशान्तमोह एकः, क्षीणमोहकेवलिनौ च कात्स्न्येनोन्मूलितकर्मकदम्बको, सरागः पुनः संज्वलनकषायवानपि अविद्यमान उदयोऽकषाय एव, मन्दानुभावत्वमनुदराकन्यानिर्देशवद्, अतश्चोपपन्नमिदं "उच्चालियम्मि पाए, इरियासमियस्स संकमठाए / वावज्जेज कुलिंगी, मरेज जोगमासज्ज // 1 // " -ओघनिर्युक्तौ गा० 747 1. वेत्वद रा.' इति ग-पाठः। 2 छाया उच्चालिते पादे ईर्यासमितस्य संक्रमार्थम् / व्यापयेत कुलिङ्गी मियते तं योगमासाद्य //