________________ सूत्रे 3-4 स्वोपनभाष्य टीकालङ्कृतम् दास्रवोऽप्यात्मनः सरस्तुल्यस्य सम्बन्धी तत्परिणामविशेषः कर्मसलिलस्य प्रवेशे रन्ध्र निर्गमे च निझरणे कारणमास्रवः, कर्माण्यास्रवन्त्यनेनात्मनोपयान्तीति भावनीयम् // 2 // प्रथमे सूत्रे द्विधा योगो व्याख्यातः-शुभवाशुभश्च / तत्र यः शुभः स किं सर्वस्याविशेषेण कर्मण आस्रव इष्यते आहोस्वित् कस्यचिदेव ? अशुभेऽप्येवं विकल्प इत्येवं सन्देहे सति विमतिनिराकरणार्थमिदमाह-न सर्वस्य कर्मणः शुभो योग आस्रवः / किं तर्हि 1 सूत्रम्-शुभः पुण्यस्य // 6-3 // टी-शुभपरिणामानुबन्धात् शुभो योगः। द्विचत्वारिंशद्भेदं कर्म पुण्यं वक्ष्यते तस्यैवासवः शुभो योगः पुण्यस्य, न जातुचित् पापस्यापीति, एतद् विकृणोति भाष्येण भा०-शुभो योगः पुण्यस्यास्रवो भवति // 3 // टी-प्राणातिपातादिनिवृत्त्यादयः सत्यादयोऽपरिग्रहता धर्मध्यानादयश्च शुभो योगः, स पुण्यस्यैवात्रवो न पापस्येत्यानिश्चितमिदमिति मन्यमानो भाष्यकारः॥३॥ शुभः पुण्यस्यैवेत्युक्ते तत्प्रत्यनीकनिवृत्तिरैकान्तिकी दीपज्वलनवचसस्तमोऽपगमवन पृथक प्रयत्नः-सूत्रेण कार्य इत्यर्थलब्धव्याख्यानाभिप्रायेणाह सूत्रम्-अशुभः पापस्य // 6-4 // - टी-प्राणातिपातादिलक्षणस्त्रिविधोऽप्यशुभः पापस्य व्यधिकाशीतिभेदस्यास्रवो भवति / उभयनियमश्चात्र न्याय्यः, शुभो योगः पुण्यस्यैवास्रवो भवति, न कदाचित् पापस्य, एवमशुभः पापस्यैव, न कदाचिच्छुभस्यास्रवः / शुभः पुण्यस्यैवेति च पापनिवृत्तिराख्यायते, न तु निर्जराहेतुत्वनिषेधः / स हि पुण्यस्य निर्जरायाच कारणं शुभो योगः // भा०-तत्र सद्धेद्यादि पुण्यं वक्ष्यते। शेष पापमिति // 4 // टी-तत्रेति तयोः पुण्यापुण्ययोः / पुण्यं तावत् सवेद्यादि वक्ष्यतेऽष्टमेऽध्याये (सू० 26) / सद्वेद्यमादिर्यस्य तत् सद्वद्यादि / आदिग्रहणात् सम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोअग्रहणं तत् पुण्यमुदात्तगतिशरीरसंस्थानसंहननाङ्गोपाङ्गनिर्वर्ततं, शक्तीष्टस्पर्शरसरूपगन्धशब्दानुभवानिमित्तं विशिष्टकुलरूपलक्षणशीलप्रतिभादेशकालपरिजनप्रियत्वापादकं सद्धर्मानुवन्धि, तस्य शुभयोग आस्रवो भवति, एवं पुण्यं कर्म विनिश्चित्य पापविनिश्चयायाह-शेष पापमिति / उपयुक्तादन्यच्छेषम् / अष्टप्रकारे मूलकर्मणि द्विचत्वारिंशदुत्तरप्रकृतयः पुण्यम् / तद्यथा--सनेद्यं देद्विचत्वारिंशत् वनरतियगायूंषि उच्चैर्गात्रं पञ्चेन्द्रिया जातिः मनुष्यगतिनाम मनुष्यगत्या1. नुपूर्वी देवगतिः देवगत्यानुपूर्वी पञ्च शरीराणि त्रीण्यङ्गोपाङ्गानि प्रथमसंपुण्यप्रकृतयः हननसंस्थाने शुभवणोदिचतुष्कं अगुरुलघुनाम पराघातनाम उच्छ्वासनाम आतपनाम उद्योतनाम प्रशस्तविहायोगतित्रसबादरपर्याप्त प्रत्येकस्थिरशुभसुभगसुखरादेययशः १'बन्धे' इति कु-पाठः /