________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः 6 पयुज्योत्तरगुणा अपि योगविभागेन वाच्याः / तदेतत् सूत्रं समस्तकुशलाकुशलचारि कृतमस्ति, शेषमकुशलम् अध्यात्मचिन्ताप्रधानाः समादिशतीति // 1 // कायादियोगस्वरूपमभिधाय तत्त्वमूत्रप्रकृतमास्रवमिदानीमभिसम्बध्नाति-योऽयं योगशब्दाभिधेयः संसारिणः पुंसः क्रियाकलापः सूत्रम्--स आस्रवः॥ 6-2 // टी-स इति तच्छब्देन कायादियोगाभिसम्बन्धः, आस्रवन्ति तेन कर्माण्यात्मन इत्यास्रवः / पुंसि संज्ञायां घः प्रसिद्धेः / स तत्प्रणालिकयाऽनेकप्रकारकर्मास्रवणादास्रवः / प्रयोगावेशाचार्टीकृतस्य पुंसो यथासम्भवं कषायादिक्रियापरिगतिभाजः कर्मसम्बन्धप्रसिद्धिः, कायादिव्यापाररूपेणापरिणतस्यात्मनः कर्मबन्धतत्कलोपभोगमोक्षाभावादवश्यमेवंविधपरिणामापत्तिमभ्युपैतीति, एनमेवार्थ भाष्येण दर्शयति भा०–स एष त्रिविधोऽपि योग आस्रवसंज्ञो भवति / / टी०–स एष इत्यादि / स इति प्रागुद्दिष्टस्य निर्देशः / एष इत्युपप्रदर्शने, यथा स एष धीमानिति अनैकान्तवादिनो (1) निर्जिताः,तिस्रो विधा यस्य सः, त्रिप्रकारोऽपि कायवाङ्मनोयोगः। अपिशब्दः समुच्चये / एककोऽपि समुदायोऽपि, आस्रवः संज्ञा नाम अस्येत्यास्रवसंज्ञः। संज्ञाशब्दोपादानादन्वर्थसंज्ञाकथनम् / तदेवान्वर्थसंज्ञत्वं दर्शयति भा०-शुभाशुभयोः कर्मणोरास्रवणादास्रवः, सरसः सलिलावाहिनिर्वा हिस्रोतोवत्॥२॥ टी०-शुभाशुभयोरित्यादिना / शुभाशुभे-पुण्यापुण्ये कर्मणी पुद्गलात्मके च आनवव्याख्या या वक्ष्यमाणलक्षणे तयोः कर्मणोरास्रवणं-ग्रहणं तेन क्रियाविशेषेणो पादानात् स तादृशः क्रियाकलापः आस्रवः, तथापरिणामतो जीवः कर्मादत्ते, अन्यथा त्वभाव एव कर्मबन्धस्येति / स च द्रव्यभावभेदाद् द्विप्रकार आस्रतः / तत्र द्रव्यास्रवप्रदर्शनेन भावासवं प्रतिपादयन्नाह-सरसः सलिलावाहिनिर्वाहिस्रोतोवदिति / सलिलमावहति तच्छीलं सलिलावाहि, तथा सलिलं निर्वहतीति सलिलनिर्वाहि सलिलावाहिनिर्वाहिणी च ते स्रोतसी चेति सलिलावाहनिर्वाहिस्रोतसी ताभ्यां तुल्य आस्रवः सलिलावाहिनिर्वाहिस्रोतोवदास्रवः / स्रोतो-विवररन्धं कस्य सम्बन्धि ? सरसः-तडागस्य / किंप्रयोजन तत् स्रोतः१ सलिलावाहि सलिलप्रवेशप्रयोजनम् , एवं सलिलनिर्गमप्रयोजनं सलिलनिर्वाहि तद्व 1 'एसी' इति क-पाठः / 2 'क्षभावादतशपमेवं ' इति क-पाठः / 3 * रास्रवणाद् ग्रहणात् ' इति पाठः /