________________ भूत्रं 1 स्वोपज्ञभाष्य-टीकालङ्कृतम् नपरिग्रहसंज्ञासम्भवान् / आदिशब्दाद् दहनच्छेदनालेखनहास्यधावनवल्गनलङ्घनावरोहणास्फोटनप्रभृतिकर्मविशेषाः कायिको योगः // वाचिकयोगप्रदर्शनार्थमाह भा०-सावद्यानृतपरुषपिशुनादीनि वाचिकः // अभियोगमा टी.-सत्यमपि वचः सावधं वाचिकं कर्माशुभं यथा-हन्यन्तां " तस्कराः, व्यापाद्यन्तां हिंस्राः / अनृतमयथार्थमेव अचौरं चौरं कार]माक्रोशयति / परुष-स्नेहरहितं यथा-धिग् जाल्म ! मूर्खस्त्वं पापाचार इति / पिशुनं सत्य. मपि प्रीतिशून्यतापादनादन्यस्य परोक्षस्य सतो दोपसूचकं वचः / अन्योक्तकार्येषु देवदत्तो यत इदं चेदं चानेनाकारीति / आदिशब्दादसत्यच्छलशतं(शाठ्य?)दम्भोल्लुण्ठिकाकटुकसन्दिग्धमितविकथाश्रितः प्रवचनविरोधी वाचिकः सर्वः // ___मनोयोगनिरूपणार्थमाहमानसिकयोगस्य भेदाः भा०-अभिध्याव्यापाऱ्यांसूयादीनि मानसः // - टी-सदा सत्त्वेष्वभिद्रोहानुध्यानं अभिध्या, यथा-अस्मिन् मृते सुखं वसामः / सापाय उत्पादनारम्भो व्यापादः, यथा-अस्त्यस्यामित्रं शक्रपविहन्त तमेव प्रकोपयामीति / ईष्या परगुणविभवाद्यक्षमा, यथा-सुभगेयमस्मै रोचते तत् कथमियं द्वेष्येति / तथा गयं द्रमकदाजीवोऽधुना तु धनदायते तत् कथमयं दरिद्रः स्यादिति / असूया क्रोधविशेष एव, यथा-राजपल्यभैिरतोऽयं तथापि शुद्धवृत्तमात्मानं मन्यत इति / आदिग्रहणेनाभिमानहर्षशोकदैन्यमन्युमिथ्याभिसन्धिरागद्वेषपरपरिभवात्मविस्मयासहिष्णुतापाया॑तरौद्रध्यानपरिग्रहः / ____एवं तावदकुशलयोगनिर्धारणं कृतम् / अथ कुशलाः काययोगाः कीदृशा भवन्तीत्यत आह___ 'भा०--अतो विपरीतः शुभ इति // 1 // टी-अतः अकुशलात् काययोगाद वाग्योगान्मनोयोगाचाऽभिहितलक्षणाद् विपरीतः ___ कुशलः शुभो द्रष्टव्यः / तद्यथा-अहिंसा अस्तेयं ब्रह्मचर्यमित्यादीनि शुभयोगस्य भेदाः काययोगः शुभः / असावद्यादिवचनमागमविहितभाषणं च कुशलमित्य नेन द्वितीयव्रतपरिग्रहः / अनभिध्यादिधर्मशुक्लध्यानध्यायिता वेति मनोयोगः कुशलः, मूोलक्षणः परिग्रह इति मनोव्यापार एव / तथा निशि भक्तविरतिरित्येवमु अभ्युक्त' इति पाठः / 2 'मानसिकः' इति पाठः / 3 कुत्सित आजीवो यस्य स कदाजीवः / 4 रिवोऽनेन इति पादः।