________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 6 यथा, तद्विपरीतोऽसत्यः पापं नाम नास्ति किश्चिन् / उभयलक्षणः सत्यानृतो यथा-इमा गावश्वरन्ति, पुंसामपि तत्र सम्भवादुभयलक्षणयोगात्। असल्यानृतो यथा-हे देवदत्त ! ग्राम गच्छेत्यादि / तथा मनोयोगोऽपि, वाचा विना न चिन्तयते (1) / एतान्येवार्थान्तराणि भावनीयानि सत्यादिभेदेन // भा०-स एकशो द्विविधः / शुभश्चाशुभश्च // प्रत्येकयोगस्य स्य टी.-स त्रिविधो योगः कायादिसंज्ञः एकशो द्विविधो भवति / द्वैविध्यम् - एकश इति एकैकः कायादियोगाद् द्विभेदः प्रतिपत्तव्यः / कौ पुनस्तौ भेदावित्याह-शुभश्चाशुभश्चेति / उपादानपरिहारार्थमुभयोरुपक्षेपः / अन्यतरोपक्षेपे अन्यतरो गम्येत वा न वा / उभयपरिज्ञाने तु सति परीक्षितगुणदोषोऽन्यतरमुपादास्यतेऽन्यतरं च परित्यक्ष्यतीति / तत्र काययोगः शुभश्वाशुभश्च, एवं वाग्योगो मनोयोगश्च / शुभंपुण्यं सातादि सकलकर्मक्षयो वा तद्धेतुत्वाच्छुभः / शेषं पापमेव नारकादिजन्मफलं, संसारानुबन्धि तद्धेतुत्वादशुभः॥ भा०-तत्राशुभो हिंसास्तेयाब्रह्मादीनि कायिकः // _ टी-तत्रेति तयोः शुभाशुभयोरशुभस्तावदाख्यायते / किं पुनः कायकवाय प्रयोजनं क्रमोल्लङ्घने ? / अयमभिप्रायों भाष्यकृतः-प्रागशुभः कथ्यमानः संवेगमुत्पादयति, दुःखानुबन्धित्वात्, संविग्नश्च श्रोतृजनः शुभेऽपि योगे संसारानुबन्धिनि न प्रवर्तिष्यते, संसारानुबन्धित्वादिति / तत्र हिंसास्तेयाब्रह्मादीनि कायिकः / “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसे"ति वक्ष्यते (अ०७, सू०८)। कायिकयोगः केवलोऽसंज्ञिषु मह्यादिषु प्रसिद्धः सिद्धान्ते, मनोव्यापारवर्जितः प्राणिनां प्राणहन्ता योऽपि योगत्रयभाक् प्राणी तस्याप्युपसर्जनीभूतमनोवाग्व्यापारस्य कायिकयोग एव हिंसकत्वेनोद्भूतशक्तित्वाद् विवक्षितः,अन्यत्र गतचित्तस्यान्यविषयां च वाचं भाषमाणस्य प्रमादिनः, तथा परोऽचिन्तितार्थेन वाग्योगेन हिनस्ति अन्यः पुनर्मनोव्यापारेणैव कायवाकक्रियानिरपेक्षः करोति हिंसाम् अपरः कायवाननोव्यापारवान् प्राणिनः पिनष्टीत्येवं तेषु यः केवलः कायव्यापारः स विवक्ष्यते / तथा परपरिगृहीतस्यानिसृष्टस्य चादानं दणादेरपि स्तेयम् / तच्च वक्ष्यते लक्षणतः “अदत्तादानं स्तेयम्," (अ० ७,सू०१०) एतदपि प्रत्येकयोगवर्ति समुदायवर्ति च व्याख्याय केवलकायव्यापाररूपं ग्राह्यम् / अब्रह्मापि समुपजातवेदोदयस्य चेतनारेतनवस्तुविवरलिङ्गाकृतिविश्यमासेवनं स्वावयवनोदजनितं च स्पर्शसुखं, तच्च वक्ष्यते--"मेथुनमब्रह्म" (अ०७, मू० 11), अत्रापि केवलकायव्यापारः सम्भवात् उपयुज्य वाच्यः, काङ्क्षामोहसद्भावात् / पृथिव्यादिष्वाहारभयमैथु 1. चिन्ताविनायते ' इति ग-पाठः, * चिन्ताविनयत' इति तु क-पाठः / 2 'मह्यादिष्वसंशिषु इति पादः /