________________ 3 व्याख्या सूत्र 1 1 स्वोपक्षमाप्य टीकालङ्कृतम् सक्तो वाग्व्यापारो दृष्टोप्रणिहितचेतसः, तथा कायवाग्व्यापाराभावेऽपि कदाचिन्मनोव्यापार एवं केवलो दृष्टः कचित्, अतः समुदिताः कायादय-आत्माधिष्ठिता एककाच क्रियाहेतवः। तत्र कायप्रयोजनं कायिकं, कायेन वा निवृत्तं, तत्र वा भवं, एवं वाचिकमानसे अपि वाच्ये / इतिशब्दः कर्मेयत्ताप्रतिपादनार्थः / एतावत् कर्मात्मनः कर्तुः शरीरकत्वपरिणामादमिनं करणं मषति, वीर्ये निवत्यै अन्योन्यानुगतिपरिणामाद् द्रव्यरूपाः कायादियोगा भावयोग वीर्य निवर्तयन्ति / यथा कर्तुःशरीरस्य आगमने निवर्येऽप्यादौ कारणममित्रमेकत्वादेवमेते अपीति। अत एष एव शरीरात्मप्रदेशपिण्डः प्रतिविशिष्टक्रियाकारित्वव्यवच्छिन्नस्त्रिविधो योगो भवति / तिस्रो विधा यस्यासौ त्रिविधः / तदेव प्रतिविशिष्टक्रियाकारित्वमुपसूचयतिविविधयोगानां . . भा०-कायात्मप्रदेशपरिणामो गमनादिक्रियाहेतुः काययोगः / भाषायोग्यपुद्गलात्मप्रदेशपरिणामो पाग्योगः / मनो योग्यपुद्गलात्मप्रेदशपरिणामो मनोयोगः // . री-त्रिविध इति मूलभेदकथनम्, उत्तरमेदास्तु पञ्चदश भवन्ति / तद्यथा .. औदारिककायेन योगः औदारिककाययोगः औदारिककायावष्टम्मोकाययोगस्य म पजातक्रियामिसम्बन्ध औदारिककाययोगः, तिर्यअनुष्याणामेव, केव लिसमुद्घातकाले च प्रथमाष्टमसमययोरिष्टः, स एव कार्मणसहचरित औदारिकमिश्रकाययोगः, केवलिसमुदाते द्वितीयषष्ठसप्तमसमयेषु समस्ति / औदारिकादिशरीराणां च द्वितीयाध्याये (सू० 37-49) स्वरूपमभिहितम् / औदारिककार्मण• शरीरद्रव्यमिश्रत्वात् मिश्रव्यपदेशः / यथा गुडमिश्रमत्रं न तु गुड इति व्यपदिश्यते अकेवल खाद,असम्पूर्णत्वादेवौदारिकयोगः सम्पूर्णोऽभ्यव्यतिमिश्रत्वादौदारिकमिश्रकाययोगः। औदारिकस्य च प्राधान्यात् तेन निर्देशो विहितः / विविधक्रियाकारणो वैक्रियकायस्तेन योगः। सच नारकदेवानां तिर्यग्मनुष्याणां च विभूतिप्राप्तानाम्, एषामेव चौदारिकेण सह ग्रहणकाले वैक्रियमिश्रकाययोगः / पूर्ववन्मिश्रशब्दार्थः सर्वत्र / प्रयोजनार्थमाहियत इत्याहारक: काययोगः / स च साधोरेवर्द्धिप्राप्तस्य, स एवौदारिकेण सहाहारकमिश्रकाययोगो ग्रहणकाले भवति / सर्वकर्मप्ररोहबीजं सांसारिकसुखदुःखभाजनं कर्मैव कार्मणशरीरं तेन योगः कार्मणकाययोगः / स च विग्रहसमापत्तौ केवलिसमुद्घाते वा त्रिचतुर्थपञ्चमसमयेषु भवति / कर्मणि वा भवं कार्मणम् / न च कर्मकार्मणयोरैक्यम् / कार्मणस्य कर्मणा निष्पादितत्वात् , किन्तु कर्मकार्मणवर्गणानां सदृशत्वात् तथैव तस्य व्यपदेशः कार्मणमिति / तैजसशरीरमाहारपाचनसमर्थमवियुक्तं कार्मणयोगेनेति न भेदेनोपात्तं स्वातन्त्र्यस्वाभाव्यात् / एवं काययोगः सप्तविधः प्रदर्शितः // चतुर्धा वाग्योगस्तत्र निश्चयव्यवहारो यथार्थः सत्यः पापाद् विरतव्यमिति ... 'निर्वर्तयन्ति ' इति क-ख-पाठः। 2 'ध्याणां केवलि.' इति ग-पाठः। ३'अन' इति क-ग-पाठः / 'कारणार्थ ' इति ग-पाठः / 5 ' समापनः ' इति ग-पाठः /