________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 6 पणमिति / एतदुक्तं भवति-आस्तां तावदर्थव्याख्याऽसौ सान्यारिकी, इदमेवाभिधानमनिर्धारितार्थ न प्रतिपत्तुमुत्सहामहे योग इति / किस्वरूपो योगः 1 कतिप्रकारो वेत्याह-कायवाअनाकर्म योग इति / कृतद्वन्द्वानां कायादीनामात्मनः करणानामभेदवृत्तीनां कर्मपदेन सह षष्ठीसमासः / कर्म व्यापारः क्रिया चेष्टेयनान्तरम् / एतत् कर्म योगस्यार्थः कायादिसम्बन्धि यथासम्भवं योग उच्यते, वीर्यान्तरायक्षयोपशमज नितेन पयोयेणात्मनः सम्बन्धो योगः / स च वीयेप्राणोत्साहपराक्रमचेष्टाशक्तिसामर्थ्यादिशब्दवाच्यः / अथवा युनत्त्येनं जीवो वीर्यान्तरायक्षयोपशमजनितं पर्यायमिति योगः / स च कायादिभेदात् त्रिविधः / साधकंगमनादिभाषणचिन्तास्त्रात्मनः / तत्र कायः--शरीरं आत्मनो वा निवासः पुद्गलद्रव्यघटितः स्थविरस्य दुर्बलस्य वाऽध्वालम्बनयष्टिकादिवद् विषमेधूपग्राहकस्तद्योगाज्जीवस्य वीर्यपरिणामः-शक्तिः--सामर्थ्य काययोगः, यथाऽ. मिसम्पर्काघटस्य रक्ततापरिणामः तथाऽऽत्मनः कायकरणसम्बन्धाद वीर्यपरिणतिः, तथाऽऽमयुक्तकायायत्ता वाग्वर्गणायोग्यस्कन्धा विसृज्यमाना वाकृतकरणतामापद्यन्ते। अनेन च वाकरणेन सम्बन्धादात्मनो यद् वीर्यसमुत्थानं भाषकशक्तिः स वाग्योगः सत्यादिभेदाच्चतुर्विधः / पुद्गलाश्च वस्तुतो न सत्यादिभेदभाजः, किन्तु ज्ञानमेव सत्यादिभेदमुच्यते तब्यवहारो वा, तथापि तद्धलाधानसाधकतमत्वाद् वागपि सत्यादिभेदेनोपचर्यते / तथाऽऽत्मना शरीरवता सर्वप्रदेशैहीता मनोवर्गणायोग्यस्कन्धाः शुभादिमननार्थ करणभावमालम्बन्ते, तत्सम्बन्धाचास्मनः पराक्रमविशेषो योगः सत्यादिविकल्पाचेतुधैव / अत्रापि मनोवर्गणायोग्यस्कन्धा न सत्यादिव्यपदेश्याः परमार्थतः, किन्तु नोइन्द्रियावरणक्षयोपशमसमुद्भूतमनोविज्ञानपरिणतावात्मनो बलाधानकारित्वादात्मसहचरितत्वादुपचारतः सत्यादिव्यपदेश इति / अमुमेवार्थ भाष्येण सष्टयति भा०-कायिकं कर्म वाचिकं कर्म मानसं कर्म इत्येष योगस्य त्रैविध्यम् विविधो योगो भवति // टी-कायिक कर्मेत्यादि भाष्यम् / एकैकस्य कायादेः कर्म भवति, नावश्यं समुदितानामेवेत्यस्यार्थस्य प्रतिपादनार्थमभिसम्बनिन् भाष्यकारः प्रत्येकमपि कर्म शब्दं कायिकं कर्म वाचिकं कर्म मानसं कर्मेत्याह / भवतु नाम कायकर्म केवलं भूदकतेजोमारुतवनस्पत्यादिषु, वाकर्म मनःकर्म वा कस्मिन् कस्मिन् दृष्टमिति, न बूमो यथा कायकर्मेतरद्वयनिरपेक्षं तथा वाकर्मापीतरद्वपानपेक्षं मनःकर्म वा, किं तर्हि? कायव्यापाराभावेऽपि का , 'कत्वात् गम.' इति ग-पाठः / 1 'स्वात्मः' इति गं-पाठः / 3 'तेन च' इति पाठः / 4 'सम्बन्धत्वादास्मन' इति पाठः / 5 'चतुर्विधैव' इति ग-पाठः / 6 ककं दृष्ट' इति स्व-पाठः / . 'तद्भय' इति ग-पाठः /