________________ प्रेष्टिदेवचन्द्र-लालभाइ जैनपुस्तकोद्धारग्रन्थाङ्केवाचकवर्यश्रीउमास्वातिसंदृब्धस्य स्वोपज्ञभाष्ययुतस्य तत्त्वार्थाधिगमसूत्रस्य श्रीसिद्धसेनगणिकृतायां व्याख्याया ॥हितीयो विभागः॥ अथ षष्ठोऽध्यायः 6 भा०-अत्राह-उक्ता जीवाजीवाः / अथास्रवः क इत्यामन्याय सम्बन्धः सम्बन्धः सवप्रसिद्धयर्थमिदं प्रक्रम्यते // - री-अत्राह-उक्ता जीवाजीवा इति सम्बन्धः / अत्र-एतस्मिन् जीवाजीवादिपदार्थसप्तके प्रकृते जीवाचाजीवाश्च द्रव्यतः पर्यायतश्च स्थित्युत्पत्तिप्रलयस्वभाषा व्याख्याताः। अथ तयोरनन्तरोद्दिष्ट आस्रवः क इति, प्रश्नपरिसमाप्तौ इतिशब्दः / क आस्रव इत्येव मन्यते प्रष्टा / वस्तुतश्चेतनाचेतनलक्षणजीवाजीवपदार्थद्वयसद्भाव एव / आस्रवस्तु यदि जीवोऽथापि जीवपर्यायः सर्वथा जीव एवास्तु / अथाजीवस्तत्पर्यायो वा तथा सति अजीव एव / नापि चेतनाचेतनव्यतिरेकि पदाथोन्तरमस्तीति, अतः स्वरूपं पृच्छतिकोऽयमास्रव इति / आचार्यस्तूभयविशिष्टमास्रवं चेतसि निधायाहात्र-आस्रवप्रसिद्धयर्थमिदं प्रक्रियते / अत्र जीवादिपदार्थसप्तके जीवाजीवावमिधाय लक्षणविधानाभ्यों प्रेधानाधिकारिका(१)भ्यामानवप्रसाधनार्थमिदं प्रस्तूयते / अथवा अत्रेत्यध्यायाभिसम्बन्धः / अत्र-अध्याये आस्रवो विचार्यते--स्वरूपेणाख्यायत इत्ययमभिप्रायः सूरेः / आस्रवःक्रियाविशेषः। स चात्मकायाद्याश्रयो न जीवोन जीवपर्यायः केवलः,न वाऽजीवो नापि तत्पसोयः, उभयाश्रयत्वात् / न च पदार्थान्तरं जीवाजीवाभ्यामतो भेदेनास्रवस्वरूपमिदं लक्षणवि. पानाभ्यां व्याख्यातुं प्रक्रियते सूत्रम्-कायवाचनकर्म योगः // 6-1 // टी.-ननु चायमसङ्गतार्थः सम्बन्धोऽज्यस्मिन् प्रस्तुतेऽन्यस्य व्याख्येयत्वेनोपन्या ____साद,आस्रवसम्बन्धमभिधाय योगःसूत्रेणोपन्यस्त इति / उच्यते. आस्रवः योगशन्दे हेनुः प्रतिज्ञातः, स एव च व्याख्यायते, किन्तु तब्याख्यानपरिकरार्थ योगो पन्यासस्तन्मूलत्वादास्रवस्येति / अथवा पश्चमाध्यायपर्यन्ते सूत्रेऽमिहित-योगस्तु परस्ताद वक्ष्यते / स चायं योगः कायादिभेदः, तत्प्रणाडिकयैवानवस्वरूपनिरू 1 प्रक्रिमते' इति घ-टी. पाठः / 2 'प्राधान्याधि' इति ग-पाठः / 3 परिपाकार्य' इति ग-पाठः /