________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 6 सूत्रम्--ईन्द्रियकषायाव्रतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः॥ 6-6 // टी०-इन्द्रियादीनां चतुर्णा कृतद्वन्द्वानां संहत्योत्तरभेदैनिर्देशः / पञ्च चत्वारः पञ्च पञ्चविंशतिः संख्या येषां ते पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः / पूर्वस्येति निर्देशसामर्थ्यात् साम्परायिकस्य कर्मणो य आस्रवस्तस्य भेदा भवन्तीति, एतदेव भाष्यकारो विशकलयति भाष्येण भा०-पूर्वस्येति सूत्रक्रमप्रामाण्यात् साम्परायिकस्याह / साम्परायिकस्यासवभेदाः पश्च चत्वारः पञ्च पञ्चविंशतिरिति भवन्ति // . टी-पूर्वस्येति सूत्रक्रमप्रामाण्यात् साम्परायिकस्याहेत्यादि भाष्यम् / पूर्व-प्रथमं कर्म / किंकृतं प्राथम्यमित्याह-सूत्रक्रमप्रामाण्यादिति / सूत्रे परिपाटीक्रमस्तस्याप्तोक्तत्वात् प्रामाण्यम् / आचार्येण हि सूत्रे साम्परायिककर्मास्रव एव प्रथममुपन्यस्तोऽटस्तमेव विवृणोति-साम्परायिकस्याह / सम्परायकारणस्य कर्मण आस्रव इति सूत्रकारः प्रागेवमुवाच अतः साम्परायिकस्य कर्मणो य आस्रवस्तस्य भेदाः-प्रकाराः संख्यायन्ते यथाक्रमम् / पञ्चेन्द्रियाणि प्राग्व्यासाम्परायिकानवस्य ख्यातस्वरूपाण्यात्मनो लिङ्गादिभूतानि / मूलभेदतश्चत्वारः कपायाः 49 भेदाः क्रोधादयो वक्ष्यमाणोत्तरषोडशभेदाः। पञ्चाव्रतानि हिंसादीनि लक्ष णतो वक्ष्यमाणानि / क्रियाः पञ्चविंशतिरिहैव सूत्रे व्याख्यास्यन्ते / एवमेते एकानचत्वारिंशदात्मनः परिणतिविशेषाः साम्परायिकस्य कर्मण आस्रवभेदा भवन्ति / तत्रेन्द्रियकषायानुल्लङ्घयाव्रतान्येव व्याचष्टे भाष्यकारः। किं पुनरत्र प्रयोजनमिति ? उच्यते-अयमभिप्रायो भाष्यकारस्य-हिंसादीन्यत्रतानि सकलास्रवजालमूलानि तत्प्रवृत्तावात्रवेष्वेव प्रवृत्तिस्तनिवृत्तौ च सर्वास्रवेभ्यो निवृत्तिरित्यस्यार्थस्य ज्ञापनार्थ सूत्रोक्तक्रममतिकम्याग्रतानि व्याचष्टे भाष्यकारः / सूत्रबन्धशोभाहेतोरिन्द्रियादिसन्निवेशः॥ भा०-पञ्च हिंसानृतस्तेयाब्रह्मपरिग्रहाः / प्रमत्तयोगात् प्राणव्यपरोपणं हिसेत्येवमादयो वक्ष्यन्ते (अ० 7, सू०८-१२)॥ टी-पश्चैव न न्यूनातिरिक्तानि व्रतानि विरतिलक्षणानि वक्ष्यन्ते / तद्विपरीतानि अवतानि-प्राणातिपातादिप्रवृत्तिस्वभावानि, हिंसादीनि कृतद्वन्द्वनिर्दिष्टानि सप्तमेऽध्याये लक्षणतोऽभिधास्यन्ते / तच्च लक्षणमुपलक्षयति-प्रमत्तयोगात् प्राणव्यपरोपणं हिंसेति / प्रमत्तस्य-कषायादिपरिणतिभाजो योगस्तद्धेतुकं यत् प्राणव्यपरोपणं सा हिंसा / इतिशब्दोऽवधारणे / एतावदेव लक्षणं हिंसायाः परिपूर्णप्रपञ्चेन व्याख्यास्यते, एवंलक्षणा हिंसा आदि १'अव्रतकषायेन्द्रियक्रियाः' इति क-पाठः।