________________ सूत्रं 7 ] .. स्वोपज्ञभाष्य-टीकालङ्कृतम् 313 . भा०-तीर्थम् / सर्वस्तोकास्तीर्थकरसिद्धाः तीर्थकरतीर्थे नोतीर्थकरसिद्धाः सङ्ख्येयगुणा इति / तीर्थकरतीर्थसिद्धा नपुंसकाः सङ्ख्येयगुणाः। तीर्थकरतीर्थ. सिद्धाः स्त्रियः सङ्ख्येयगुणाः / तीर्थकरतीर्थसिद्धाः पुमांसः सङ्ख्येयगुणा इति॥ टी०-तीर्थमित्यत्राल्पबहुत्वचिन्ता / तीर्थकरतीर्थे नोतीर्थकरसिद्धा अतीर्थकराः सन्तः सिद्धास्तीर्थकरसिद्धेभ्यः सङ्ख्येयगुणास्ते नपुंसकादयोऽपि सर्वे सङ्ख्येयगुणाः॥ __ भा०-चारित्रम् / अत्रापि नयो द्वौ-प्रत्युत्पन्नभावप्रज्ञापनीयश्च पूर्वभावप्रज्ञापनीयश्च / प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारित्री नोऽचारित्री सिध्यति / मास्त्यल्पबहुत्वम् / पूर्वभावप्रज्ञापनीयस्य व्यञ्जिते चाव्यञ्जिते च / अव्यञ्जिते सर्वस्तोकाः पञ्चचारित्रसिद्धाश्चतुश्चारित्रसिद्धाः सङ्ख्येगुणाः त्रिचारित्रसिद्धाः सङ्खयेयगुणाः / व्यञ्जिते सर्वस्तोकाः सामायिक-छेदोपस्थाप्य-परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातचारित्रसिद्धाः छेदोपस्थाप्य-परिहारविशुद्धि सूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः सामायिक छेदोपस्थाप्य-सूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः [सामायिक परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातसिद्धाः संख्येगुणाः ] सामायिक-सूक्ष्मसम्पराय यथाख्यातचारित्रसिद्धाः सङ्खयेयगुणाः छेदोपस्थाप्य-सूक्ष्मसम्पराय-यथाख्यातचारित्रसिद्धाः सङ्खयेयगुणाः // टी-चारित्रमित्यत्रापि तावेव द्वौ नयौ चतुश्चारित्रसिद्धेषु द्वौ विकल्पो, त्रिचारित्रसिद्धेष्वपि द्वावेव / सर्वत्र सङ्ख्येयगुणत्वम् / ... भा०-प्रत्येक वुद्धबोधितः / सर्वस्तोकाः प्रत्येकवुद्धसिद्धाः / बुद्धबोधितसिद्धा नपुंसकाः सख्येयगुणाः / बुद्धबोधितसिद्धाः स्त्रियः सङ्ख्येयगुणाः / बुद्धबोधितसिद्धाः पुमांसः सङ्ख्येयगुणा इति // टी०-प्रत्येकबुद्धबोधित इत्यत्र सर्वस्तोकाः प्रत्येकबुद्धसिद्धाः / सर्वत्र सङ्ख्येयगुणत्वम् // भा०-ज्ञानम् / कः केन ज्ञानेन युक्तः सिध्यति / प्रत्युत्पन्नभावप्रज्ञापनीयस्य सर्वः केवली सिध्यति / नास्त्यल्पबहुत्वम् / पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका विज्ञानसिद्धाः, चतुर्ज्ञानसिद्धाः सख्येयगुणाः, त्रिज्ञानसिद्धाः सङ्ख्येयगुणाः / एवं तावदव्यञ्जिते व्यञ्जितेऽपि सर्वस्तोका मति-श्रुतज्ञानसिद्धाः, मतिश्रुता-ऽवधि-मनःपर्यायज्ञानसिद्धाः सङ्ख्येयगुणाः, मति श्रुता-ऽवधिज्ञानसिद्धाः सङ्ख्येयगुणा इति॥ 1 'इति' इति पाठो नास्ति घ-पुस्तके /