________________ 312 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 10 लोकसिद्धाः, अधोलोकसिद्धाः सङ्ख्येयगुणाः, तिर्यग्लोकसिद्धाः सङ्ख्येयगुणाः, सर्वस्तोकाः समुद्रसिद्धाः, बीपसिद्धाः संख्येयगुणाः। एवं तावदव्यञ्जिते व्यञ्जितेऽपि सर्वस्तोका लवणसिद्धाः कालोदसिद्धाः सङ्ख्येयगुणाः, जम्बूद्वीपसिद्धाः सङ्ख्येयगुणाः, धातकीखण्डसिद्धाः सङ्ख्येयगुणाः, पुष्करार्धसिद्धाः सङ्ख्येयगुणा इति॥ टी०-संहरणं विविधमित्यादि गतार्थम् / समभूतलाद्भूभागा नव योजनशतान्यारुह्य तत उपर्युवलोकः, अधोलोकोऽपि नव योजनशतान्यवगाह्य परतोऽष्टादशयोजनशतपरिमाणो मध्ये तिर्यग्लोकः / भाष्यशेष पठितसिद्धम् / एवं क्षेत्रगतमल्पबहुत्वमभिधाय कालकृतमल्पबहुत्वं भण्यते भा०-काल इति त्रिविधो विभागो भवति-अवसर्पिणी उत्सर्पिणी अनवसर्पिण्युत्सर्पिणीति / अत्र सिद्धानां व्यञ्जिताव्यञ्जितविशेषयुक्तोऽल्पबहुत्वानुगमः कर्तव्यः। पूर्वभागप्रज्ञापनीयस्य सर्वस्तोका उत्सर्पिणीसिद्धाः, अवसपिणीसिद्धा विशेषाधिकाः, अनवसर्पिण्युत्सर्पिणीसिद्धाः सङ्ख्येयगुणा इति / प्रत्युत्पन्नभावप्रज्ञापनीयस्याकाले सिध्यति। नास्त्यल्पबहुत्वम् / टी-काल इति / त्रिविधी विभागो भवतीत्यादि सुज्ञानमेव भाष्यम् // भा०-गतिः। प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगतौ सिध्यति। नास्त्यल्पबहुत्वम् / पूर्वभावप्रज्ञापनीयस्यानन्तरपश्चात्कृतिकस्य मनुष्यगतौ सिध्यति / नास्त्यल्पबहुत्वम् / परम्परपश्चात्कृतिकस्याऽनन्तरा गतिश्चिन्त्यते / तद्यथा-सर्वस्तोकास्तिर्यग्योन्यनन्तरगतिसिद्धाः, मनुष्येभ्योऽनन्तरगतिसिद्धाः सङ्ख्येयगुणाः, नारकेभ्योऽनन्तरगतिसिद्धाः सङ्ख्येयगुणाः, देवेभ्योऽनन्तरसिद्धाः सङ्ख्येयगुणा इति॥ टी-गतावल्पबहुत्वं चिन्त्यते-तिर्यग्योन्यनन्तरगतिसिद्धा इति / तिर्यग्योनेरुबृत्य मनुष्यगतौ सिद्धास्तथा मनुष्यगतेरेवोद्धृत्य मनुष्येषूत्पद्यन्ते सिद्धाः / एवं शेषेष्वपि वाच्यम् // भा०-लिङ्गम् / प्रत्युत्पन्नभावप्रज्ञापनीयस्य व्यपगतवेदः सिध्यति / नास्त्यरुपबहुत्वम् / पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका नपुंसकलिङ्गसिद्धाः, स्त्रीलिङ्गसिद्धाः सङ्ख्येयगुणाः, पुंल्लिङ्गसिद्धाः सङ्ख्येयगुणा इति // टी-लिङ्गमिति ख्यादिकम् / नपुंसकसिद्धाः स्तोकाः / स्त्रीसिद्धाः सङ्ख्येपगुणाः / 'सिद्धाः सङ्ख्येयगुणा इति। १'नच अल्प ' इति ग-पाठः।