________________ सूत्र 7 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 311 द्विप्रभृत्या नवभ्यः पृथक्त्वसंज्ञा च। एतच्चोत्कृष्टं देहमानं मरुदेवीप्रभृतीनां सम्भवति / तीर्थकराणां पञ्चव धनुःशतान्युत्कृष्टा जघन्या च सप्तहस्तानां तीर्थकराणातीर्थकराणामवगाहना मव / अङ्गुलपृथक्त्वोना सामान्येन तु जघन्या द्विहस्तानां वामनकर्म सुतादीनामिति / तत्र पूर्वभावप्रज्ञापनीयस्य एतास्वेवावगाहनासु सिध्यति / प्रत्युत्पन्नभावप्रज्ञापनीये तु एतास्वेवावगाहनासु यथास्वं पञ्चधनुःशतादिकासु त्रिभागहीनासु सिध्यतीति // भा०–अन्तरम् / सिध्यमान,नां किमन्तरम् / अनन्तरं च सिध्यन्ति सान्तरं च सिध्यन्ति / तत्रानन्तरं जघन्येन द्वौ समयौ, उत्कृष्टेनाष्टौ समयान् / सान्तरं जघन्येनैकं समयं, उत्कृष्टेन षण्मासा इति॥ टी०-अन्तरमिति। सिध्यमानानां जीवानामन्तरं च / तत्रान्तरमेको वर्तमानसमये सिद्धस्ततोऽन्यः कियता कालेन सेत्स्यतीति सिद्धेः गमनशून्यः कालोऽन्तरम्, अन्तरालमित्यर्थः / अनन्तरं निरन्तरमन्त्यव्यवच्छेदोऽनुसन्ततमित्यर्थः। तत्र नैरन्तर्येण जघन्यतः सिध्यन्ति हो समयौ उत्कृष्टेनाष्टौ समयानिति / ततः परं व्यवच्छेदः। अन्तरं तु जघन्येनैकसमयः, उत्कृष्टेन षण्मासाः सिध्यन्तः सिध्यतो व्यवच्छिद्यन्ते। व्यवच्छेदः कदाचिदेकस्मिन् समये द्वयोखिषु वेत्यादि यावत् षण्मासा इति // भा०-सङ्ख्या। कत्येकसमये सिध्यन्ति। जघन्येनैकः, उत्कृष्टेनाष्टशतम् / / टी-सङ्ख्येति / एकस्मिन् समये कति सिध्यन्ति ? जघन्यत एकः सिध्यति, उत्कृष्टेनाष्टोत्तरशतमिति // . 'भा०-अल्पबहुत्वम् / एषां क्षेत्रादीनामेकादशानामनुयोगद्वाराणामल्पबहुत्वं वाच्यम् / तद्यथा-क्षेत्रसिद्धानां जन्मतः संहरणतश्च कर्मभूमिसिद्धा अकर्मभूमिसिद्धाश्च सर्वस्तोकाः संहरणसिद्धा, जन्मतोऽसङ्ख्येयगुणाः॥ टी०-अल्पबहुत्वमित्यादि / एषां क्षेत्रादीनां सङ्ख्यातानामेकादशानामलएबहुत्वं चिन्त्यते जन्मतः संहरणतश्चेति / जन्मतः पञ्चदशसु कर्मभूमिषु अकर्मभूमयस्त्रिंशत् हैमवताद्याः / तत्र संहरणं कर्मभूमिष्वकर्मभूमिषु वा / तत्र सर्वस्तोकाः संहरणसिद्धाः। अत एवासङ्ख्येयगुणा जन्मतः सिद्धाः॥ भा०–संहरणं विविध-परकृतं स्वयंकृतं च / परकृतं देवकर्मणा चारण-विचारैश्च / स्वयंकृतं चारण-विद्याधराणामेव / एषां च क्षेत्राणां विभागः कर्मभूमिरकर्मभूमिः समुद्रा दीपा ऊर्ध्वमधस्तिर्यगिति लोकत्रयम् / तत्र सर्वस्तोका ऊर्ध्व 'सिध्यता' इति ङ-ज-पाठः। 2 'सिद्धाश्च' इति घ-पाठः /