________________ 314 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 10 टी-ज्ञानमित्यत्रापि सर्वत्र सङ्ग्येयगुणत्वम् // भा०-अवगाहना / सर्वस्तोका जघन्यावगाहनासिद्धाः / उत्कृष्टावगाहनासिद्धास्ततोऽसङ्ख्येयगुणाः / यवमध्यसिद्धा असङ्ख्येयगुणाः, यवमध्योपरिसिद्धा असङ्ख्येयगुणाः, यवमध्याधस्तात् सिद्धा विशेषाधिकाः, सर्वे विशेषाधिकाः॥ टी०-अवगाहनेत्यत्र उत्कृष्टावगाहनासिद्धा असङ्ख्ययगुणाः। द्वावसङ्ख्येयगुणौ द्वौ विशेषाधिकाविति // भा०–अन्तरम् / सर्वस्तोका अष्टसमयानन्तरसिद्धाः, सप्तसमयानन्तरसिद्धाः षट्समयानन्तरसिद्धा इत्येवं यावद् द्विसमयानन्तरसिद्धा इति सङ्ख्येयगुणाः। एवं तावदनन्तरेषु सान्तरेष्वपि सर्वस्तोकाः षण्मासान्तरसिद्धाः, एकसमयान्तरसिद्धाः सङ्ख्येयगुणाः, यवमध्यान्तरसिद्धाः सङ्ख्येयगुणाः, अधस्तादयवमध्यान्तरसिद्धाः संङ्ख्येयगुणाः, उपरियवमध्यान्तरसिद्धा विशेषाधिकाः, सर्वे विशेषाधिकाः॥ टी०-अन्तरमित्यत्राष्टासु समयेषु नैरन्तर्येण सिद्धाः सर्वेऽपि सङ्ख्येयगुणाः / सान्तरेष्वपीत्यादि / एकसमयान्तरसिद्धाः सङ्ख्येयगुणा यवमध्यान्तरे च सङ्ख्येयगुणाः, अधस्तादूयवमध्यान्तरे च सङ्ख्येयगुणाः॥ भा०-सङ्ख्या। सर्वस्तोका अष्टोत्तरशतसिद्धाः, विपरीतक्रमात् सप्तोत्तरशतसिद्धादयो यावत् पञ्चाशदित्यनन्तगुणाः / एकोनपश्चाशदादयो यावत् पञ्चविंशतिरित्यसङ्खयगुणाः / चतुर्विशत्यायो यावदेक इति सङ्ख्येयगुणाः विपरीतहानिर्यथा-सर्वस्तोका अनन्तगुणहानिसिद्धाः, असङ्ख्येयगुणहानिसिद्धा अनन्तगुणाः, सङ्ख्येयगुणहानिसिद्धाः सङ्ख्येयगुणा इति॥ टी-सङ्ख्येत्यत्र अष्टोत्तरशतसिद्धाः सर्वस्तोकाः / विपरीतक्रमादिति सप्तोत्तरशतसिद्धा अनन्तगुणाः। एवं विपरीतहान्या यावत् पञ्चाशदित्यनन्तगुणाः। विपरीतहानिर्यथेत्यादिना दर्शयति / सर्वस्तोका अनन्तगुणहानिसिद्धाः, असङ्ख्येयगुणहानिसिद्धा अनन्तगुणाः, सङ्ख्येयगुणहानिसिद्धाः सङ्ख्येयगुणा इति // भा०–एवं निसर्गा-ऽधिगमयोरन्यतरजं तत्त्वार्थश्रद्धानात्मकं शङ्कायतिचारवियुक्तं प्रशम-संवेग-निर्वेदा-ऽनुकम्पा-ऽस्तिक्याभिव्यक्तिलक्षणं विशुद्धं सम्यग्दर्शनमवाप्य सम्यग्दर्शनोपलम्भाद् विशुद्धं च ज्ञानमधिगम्य निक्षेप-प्रमाण-नयनिर्देश-सत्-सङ्ख्यादिभिरभ्युपायैर्जीवादीनां तत्त्वानां पारिणामिकौ-दयिको-पश 1 'असङ्ख्येय' इति घ-पाठः।