________________ 308 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 10 भा०-तीर्थम् / सन्ति तीर्थकरसिद्धाः तीर्थकरतीर्थे नोतीर्थकरसिद्धास्तीर्थकरतीर्थे अतीर्थकरसिद्धाः तीर्थकरतीर्थे / एवं तीर्थकरीतीर्थे सिद्धा अपि॥ टी०-तीर्थमिति / अत्र सन्ति-विद्यन्ते तीर्थकरसिद्धाः तीर्थकरनामकर्मानुभवपूर्वकाः सिद्धाः तीर्थकरसिद्धाः। ते च तीर्थकरतीर्थे तीर्थकरेण प्राक् प्रवर्तितं तीर्थ तस्मिन् सति पुनः स एव तीर्थस्य प्रवर्तयिता तीर्थकरः सिध्यति / नोतीर्थकरसिद्धाः प्रत्येकबुद्धाः। ते च तीर्थकरतीर्थे / अतीर्थकरसिद्धाः साधवः तीर्थकरतीर्थे / एवम्-उक्तेन प्रकारेण तीर्थकरीतीर्थसिद्धा अपि वाच्याः। तीर्थकरीतीर्थतस्तीर्थकरी सिध्यतीत्यादि / सिद्धप्राभृते अमी विकल्पाः-" अत्थि तित्थकरसिद्धा तित्थकरतित्थे नोतित्थसिद्धा तित्थकरतित्थे तित्थसिद्धा तित्थकरतित्थे तित्थसिद्धाओ तित्थकरीसिद्धा तित्थकरीतित्थे नोतित्थसिद्धा तित्थकरीतित्थे तित्थसिद्धा तित्थकरीतित्थे तित्थसिद्धाओ" / अत्र तत्त्वविदः प्रवचनाभिज्ञाः॥ भा०-लिङ्गे पुनरन्यो विकल्प उच्यते-द्रव्यलिङ्ग भावलिङ्ग अलिङ्गमिति / प्रत्युत्पन्नभावप्रज्ञापनीयस्यालिङ्गः सिध्यति / पूर्वभावप्रज्ञापनीयस्य भावलिङ्गं प्रति स्वलिङ्गे सिध्यति / द्रव्यलिङ्ग त्रिविधं-स्वलिङ्गमन्यलिङ्ग गृहिलिङ्गमिति। तत् प्रति भाज्यम् / सर्वस्तु भावलिङ्गं प्राप्तः सिध्यति॥ . टी-लिङ्गे पुनरन्यो विकल्प उच्यते // ननु च पूर्वमेवोपन्यसनीयः स्यात् / सत्यमेव क्षम्यतामिदमेकमाचायेस्य / त्रिप्रकारं लिङ्ग-द्रव्यलिङ्ग भावआचार्यस्य व लिङ्गमलिङ्गमिति, तीर्थोपाधिकत्वात् वृत्तौ त्रय एव विकल्पाः। तत्र प्रत्यु त्पन्नग्राहिणो नयस्य शुद्धस्य अलिङ्ग एव सिध्यति तदा तु द्रव्यलिङ्ग न सम्भवत्येव / द्रव्यलिङ्ग त्रिविधं रजोहरणमुखवस्त्रिकाचोलपट्टकादि स्वलिङ्गम् / अन्यलिङ्ग भौतपरिव्राजकादिवेषः / गृहिलिङ्गं दीर्घकेश-कच्छा-बन्धादि / तदेवंविधं द्रव्यलिङ्ग भाज्यम्कदाचित् सलिङ्गः कदाचिदलिङ्ग इति / भावलिङ्गं श्रुतज्ञानक्षायिकसम्यक्त्वचरणानि / तत्र किश्चिदनुयायि किञ्चिन्निवर्तते, श्रुतं नास्ति सिद्धे क्षायिकसम्यक्त्वं तु विद्यते। चरणमपि सामायिकादि आवर्तत एव / पूर्वभावप्रज्ञापनीयस्य भावलिङ्गं प्रति / श्रुतादिकं स्वलिङ्गं तत्रस्थः सिध्यति / सक्षेपतस्तु सर्वो भावलिङ्गं प्राप्तः सिध्यतीति नियमः॥ स्खलना 1 'व्याख्याताः' इति ग-पाठः। 2 छाया अस्ति तीर्थकरसिद्धास्तीर्थकरतीर्थे नोतीर्थसिद्धास्तीर्थकरतीर्थे तीर्थसिद्धास्तीर्थकरतीर्थे तीर्थसिद्धास्तीर्थकरीसिद्धाः तीर्थकरीतीर्थे नोतीर्थसिद्धाः तीर्थकरीतीर्थे तीर्थसिद्धास्तीर्थकरीतीर्थे तीर्थसिद्धाः।