________________ सूत्रं 7 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 307 टी०-काल इति / अत्रापि तदेव नयद्वयम् / कस्मिन् कालेसिध्यतीति / तत्र प्रत्युत्पनभावप्रज्ञापनीयस्य अकाले-अविद्यमानकाले ईपत्प्राग्भारोपलक्षितर्गमनदेशे सिध्यति / न च तत्र कालः समस्ति गतश्च तत्र सिध्यति। इतरस्य तु जन्मतः संहरणतश्च / तत्र जन्मतोऽवसर्पिण्यादिषु त्रिष्वपि जातः सिध्यति। एवं तावदविशेषतः, सामान्येनेत्यर्थः / विशेषतस्तु अवसर्पिण्यां सुषमदुःषमायां-तृतीये कालभागे सङ्ख्ययेषु वर्षेषु शेषेषु जातः सिध्यति। दुःषमसुषमायां सर्वस्यां-चतुर्थे कालविभागे सर्वत्र सिध्यति / दुःषमसुषमायां जातो दुःषमायां-पञ्चमे कालविभागे सिध्यति, न तु दुःषमायां जातः कदाचित् सिध्यतीति / अन्यत्रोत्पत्तिः दुःपमायामपि जातो नैव सिध्यति। संहरणं प्रति विवक्ष्यते यदा तदा सर्वकालेष्ववसर्पिण्यादिष्वपि सिध्यतीति / भा०-गतिः। प्रत्युत्पन्नभावप्रज्ञापनीयस्य 'सिद्धिगत्यां सिध्यति। शेषास्तु नया द्विविधाः-अनन्तरपश्चात्कृतगतिकश्व एकान्तरपश्चात्कृतगतिकश्च / अनन्तरपश्चात्कृतगतिकस्य मनुष्यगत्यां सिध्यति / एकान्तरपश्चात्कृतगतिकस्याविशेषण सर्वगतिभ्यः सिध्यति // टी०-गतिद्वारे प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धगत्यां सिद्धयति, नान्यस्यां ग्रतौ। शेषाखिकालविषया नया द्विप्रकाराः। अनन्तरपश्चादित्यादि / अनन्तरा पश्चात् कृता गतिर्येषां तेऽनन्तरपश्चात्कृतगतिकास्तेषां मनुष्यगत्यां सिध्यति / एकान्तरेत्यादि / एकान्तराः पश्चात्कृता गतयो येन तस्याप्यविशेषेण सर्वगतिभ्यः सिध्यति। एकमनुष्यगत्या अन्तरिताः-पश्चात्कृता नरकगतयो येनेत्यर्थः॥ भा०-लिङ्गम् / स्त्री-पु-नपुंसकानि / प्रत्युत्पन्नभावप्रज्ञापनीयस्यावेदः सिध्यति / पूर्वभावप्रज्ञापनीयस्य अनन्तरपश्चात्कृतगतिकस्य परम्परपश्चात्कृतगतिकस्य च त्रिभ्यो लिङ्गेभ्यः सिध्यति // टी०-लिङ्ग ख्यादि / तत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य अवेदो-विगतलिङ्गः सिध्यति / लिङ्गं वेद इत्येकोऽर्थः। पूर्वभावप्रज्ञापनीयस्य तु अनन्तरपश्चात्कृतगतिकस्य / अनन्तरपश्चात्कृतलिङ्गस्येत्यर्थः। गतौ चतुर्विधायां नियमेन लिङ्ग, लिङ्गे चावश्यम्भाविनी गतिरिति लिङ्गशब्दो नोचरितः, अविनाभावात् / यदेवानन्तरं पुंल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गं वा एकमेव / एकान्तरपश्चात्कृतगतिकश्चेत्यत्रापि गतिशब्दो लिङ्गवाची। एकेनान्तरेण लिङ्गेन पश्चात्कृतानि शेषलिङ्गानि येन तस्य त्रिभ्यो लिङ्गेभ्यः सिध्यति॥ 1 'गगन ' इति ग-पाठः। 2 'प्रसंहरणं' इति च-ज-पाठः। 3 'सिद्धगत्यां ' इति घ-टी-पाठः।