________________ 306 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 10 पूर्वभावप्रज्ञापनीयस्य जन्मप्रतिपन्नजातः कर्मभूमिषु पञ्चसु भरतेषु पञ्चस्वैरावतेषु पञ्चसु विदेहेषु सिध्यति / संहरणं प्रति मानुषक्षेत्रे सिध्यति / संहरणं द्विधा स्वकृतं परकृतं ___ च / तत्र स्वकृतं चारणानां विद्याधराणां चेच्छातो विशिष्टस्थानाश्रयणम् / संहरणस्य द्वैविध्यम् ___परकृतं चारण-विद्याधर-देवैः प्रत्यनीकतयाऽनुकम्पया चोत्क्षिप्यान्यत्र क्षेपणं संहरणम् / तच्च न सर्वस्यैव साधोः संहरणं समस्तीत्येतद् विवेकेन दर्शयति -तत्र प्रमत्तसंयताः संयतासंयताश्च-देशविरताः संहियन्ते / मतान्तरम् केचिदाहरविरतसम्यग्दृष्टिरपीति / अमी पुनर्न जातुचित् संहियन्ते भा०-श्रमण्यपगतवेदः परिहारविशुद्धिसंयतः पुलाश्रमण्यादिसप्तानां ना कोऽप्रमत्तश्चतुर्दशपूर्वी आहारकशरीरीति न संन्हियन्तेसंहरणाभाव: टी-श्रमणी संयतीत्यर्थः। अपगतवेदः परिहारविशुद्धिसंयत उक्तलक्षणः तथा पुलाकसंयतः अप्रमत्तसंयतः चतुर्दशपूर्वधरः आहारकशरीरीति / एते सप्तापि न संहियन्ते / आगमोऽपि "समणीमवगयवेदं परिहारपुलागमप्पमत्तं च / चोद्दसपुल्विं आहारगं च णवि कोवि संहरइ // "" भा०-ऋजुसूत्रनयः शब्दादयश्च त्रयः प्रत्युत्पन्नभावप्रज्ञापनीयाः शेषा नया उभयभावं प्रज्ञापयन्तीति / टी-ऋजुसूत्रनयः शब्दादयश्च त्रयः-शब्द-समभिरूढ-वम्भूताःप्रत्युत्पन्नभावप्रज्ञापनीयाः-वर्तमानार्थग्राहिणः। शेषा-नैगमादयो नया उभयभावं प्रज्ञापयन्त्यतीतं वर्तमानं चेति कालत्रयाभ्युपगमादिति // भा०कालः। अत्रापि नयद्वयम् / कस्मिन् काले सिध्यतीति / प्रत्युत्पन्नभावप्रज्ञापनीयस्य अकाले सिध्यति / पूर्वभावप्रज्ञापनीयस्य जन्मतः संहरणतश्च / जन्मतोऽवसर्पिण्युत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च जातः सिध्यति। एवं तावदविशेषतः / विशेषतोऽप्यवसर्पिण्यां सुषमदुःषमायां सङ्ख्येयेषु वर्षेषु शेषेषु जातः सिध्यति, दुःषमासुषमायां सर्वस्यां सिध्यति, दुःषमसुषमायां जातो दुःषमायां सिध्यति, न तु दुःषमायां जातः सिध्यति, अन्यत्र नैव सिध्यति / संहरणं प्रति सर्वकालेषु अवसर्पिण्यामुत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च सिध्यति // १'इति' इति न्यूनोग-पाठः। 2 छाया श्रमणीमपगतवेदं परिहारं पुलाकमप्रमतं च / चतुर्दशपूर्विणमाहारकं च नापि कोऽपि संहरति / 3 प्रवचनसारोद्धारे १४१९तमीगाथारूपेणोद्धतेयम्।