________________ सूत्रं 7 ] . स्वोपज्ञभाष्य टीकालङ्कृतम् टी०-तत्र क्षेत्रमाकाशं जीवपुद्गलानां निवामगतिविशेषणाल्लोकाकाशपरिग्रहः / तस्यापि लोकाकाशस्यैकदेशग्रहणम् , अर्धतृतीयद्वीपसमुद्रद्वयमीषत्प्राग्भारोपलक्षितश्च गगनप्रदेश इति / कालोऽनादिरनन्तस्तस्योत्सर्पिण्यवसर्पिणी च ग्राह्या ।गतिर्नरकादिभेदेन चतुर्विधा / लिङ्गं खी-पु-नपुंसकाख्यम् , अथवा द्रव्यलिङ्ग भावलिङ्गमलिङ्गमिति। तीर्थमिति तीर्थकरत्वं प्राप्य सिद्धा इत्यादिविकल्पम् / चारित्रं सामायिकादि मूलगुणोत्तरगुणभेदम् / प्रत्येकबुद्धबोधितः स्वयम्बुद्धसिद्धादिभेदः / ज्ञानं मति-श्रुतादिभेदम् / अवगाहनामिति शरीरावगाहग्रहणम् / अन्तरमेकसमयादिकं षण्मासान्तिकम् / सङ्ख्येत्येकस्मिन् समये कियन्तः सिध्यन्तीत्यादि / अल्पबहुत्वमिति क्षेत्रसिद्धाद्यन्तःपातिभेदानां परस्परं चिन्त्यते। एतानि द्वादशानुयोगद्वाराणि सिद्धस्य सिद्धत्वला कारणानि भवन्ति / एतदेव स्पष्टयति भा०-एभिः सिद्धः साध्यः अनुगम्यश्चिन्त्यो व्याख्येय इत्येकार्थत्वम् / सत्र पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च द्वौ नयौ भवतः / तत्कृतोऽ. नुयोगविशेषः। __टी०-साध्यपर्यायानाचष्टे-अनुगमनीयोऽनुगम्योऽनुसर्तव्योऽनुसृत्यः। चित्त व्यवस्थाप्यश्चिन्त्यः व्यवस्थाप्य च व्याख्येयः-कथनीयः / एकस्य-अभिन्नस्यार्थस्य वाचकाः सर्व एते साध्यादयः / अत एव पर्यायत्वं युगपदप्रयोगात् / तत्र-अस्मिन् सिद्धव्याख्याने कर्तव्ये दौ नयो पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च / पूर्वम्-अतीतं भावं प्रज्ञापयतीति पूर्वभावप्रज्ञापनीयः / प्रत्युत्पन्न-वर्तमानं भावं प्रज्ञापयतीति प्रत्युत्पन्नभावप्रज्ञापनीयः / नैगमादिप्रसिद्धनयेभ्यश्च नेमौ व्यतिरिक्तौ / एतेषामेव वाचोयुक्तिभेदेन ग्रहणम् / तत्र नैगमसग्रह-व्यवहाराः सर्वकालार्थग्राहित्वात् पूर्वभावप्रज्ञापनीयशब्दवाच्याः / ऋजुसूत्र-शब्द-समभिलदैवम्भूतास्तु वर्तमानकालार्थप्रतिग्राहित्वात् प्रत्युत्पन्नभावप्रज्ञापनीयशब्दवाच्या विज्ञेयाः। आभ्यां नयाभ्यां क्षेत्रादयो व्याख्येयाः। तत्कृतः-ताभ्यां कृतोऽनुयोगविशेषो-व्याख्याप्रकारः॥ भा०--तद्यथा-कस्मिन् क्षेत्रे सिध्यतीति। प्रत्युत्पन्नभावप्रज्ञापनीयं प्रति सिद्धिक्षेत्रे 'सिध्यतीति। पूर्वभावप्रज्ञापनीयस्य जन्म प्रति पञ्चदशसु कर्मभूमिषु जातः 'सिध्यतीति। संहरणं प्रति मानुषे क्षेत्रे 'सिध्यतीति / तत्र प्रमत्तसंयताः संयतासंयताश्च संहियन्ते // टी.-तद्यथेत्यादिना क्षेत्र निरूपयति-कस्मिन् क्षेत्रे सिध्यति / तत्र प्रत्युत्पप्रभावप्रज्ञापनीयस्य सिद्धिक्षेत्र सिद्धयतीति / तत्र सिद्धः प्रतिष्ठितः। तथा चागमः"" इहं बोंदि चदत्ता णं तत्थ गंतूण सिज्झई " / अप्राप्तस्थानस्तु नैव सिद्धः, 'कृत्यशेषत्वात् / 1-3 'सिध्यति' इति घ-पाठः / 4 प्रतिष्ठितो यः' इति च-ज-पाठः / 5 आवश्यक-निर्युक्तेः ९५९तमीगाथाया अयमुत्तरार्धः, एतत्पूर्वार्धश्छायापूर्वको यथा " अलोए पडिहया सिद्धा, लोअग्गे अपइद्विआ।" अलोके प्रतिहताः सिद्धा लोकाग्रे च प्रतिष्ठिताः / इह तनुं त्यक्त्वा तत्र गत्वा सिध्यन्ति / ६'कृत्यं ' इति च-ज-पाठः।