________________ 304 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 10 तिष्ठति सर्वार्थान् सोऽत्यन्तं पश्यंस्तथा विजानंश्च / नास्ति स्वभावविगमो न तु सर्वस्यापि भावस्य // 4 // घातीनि तु कर्माणि स्वभावजातान् गुणान् विवृण्वन्ति / . तदभावात् स्वाभाविकगुणभावो भवति न तु सिद्धः // 5 // यदि च स्वभावविगमो नेष्टः कस्मात् स निष्क्रियो भवति / इति वा चोद्यं प्रोक्तं यत्स्पन्दस्तत्स्वभावत्वम् // 6 // कार्याभावाच्च पुनर्न स्पन्दस्तस्य विद्यतेऽत्यन्तम् / प्रायोगिकोऽप्ययुक्तः स्पन्दः कर्मप्रमुक्तस्य // 7 // विषयैश्च तस्य नार्थः क्षुत्-तृट-स्वेदादि-मोहबाधानाम् / रागादीनां च तथाऽभावादुपयोगहेतूनाम् // 8 // एतेन व्याख्यातो भाषण-चङ्क्रमण-चिन्तनादीनाम् / चेष्टानां सिद्धस्याभावो विशरीरवाङ्मनसः // 9 // " एवं तेषां मुक्तात्मनां "पूर्वप्रयोगादिभियुक्तिस्तद्गतिः" इति वचनात् तेषां गतिः सिद्धेति // 6 // त एते सिद्धान्तज्ञेन सिद्धाः क्षेत्रादिभिर्वादशमिरनुयोगद्वारैरनुगन्तव्याः "प्रमाणनयैरधिगमः" (अ०१, सू० 6) इति वचनादित्याह सूत्रम्-क्षेत्र काल-गति-लिङ्ग-तीर्थ-चारित्र प्रत्येकसिवस्य 12 बुद्धबोधित-ज्ञाना-ऽवगाहना-ऽन्तर-सङ्ख्या-ऽल्पबहुत्वतः अनुयोगद्वाराणि साध्याः // 10-7 // टी-अथवा अमी सिद्धाः परिनिवृत्तदोषाः कार्मणशरीरौपशमिकादिभावनिरुपाख्याः किं पर्यायान्तरेण व्यपदेष्टुमशक्या एव आहोस्विदतीतव्यवहारा एव हि निर्धार्या इति 1 // उच्यते -शक्यन्त एव व्यपदेष्टुं, यस्मात् ते खलु व्यवजिहीर्षद्भिः प्रत्युत्पन्नभूतार्थानुग्रहतन्त्रनयद्वितयसामर्थ्य विशेषवद्धिः श्रुतज्ञानाहितदाढ्यैनिदर्शनचरणाप्रच्युतमार्गस्तत्त्वप्रतिपत्त्यर्थमात्महितमादधानः क्षेत्रादिद्वारैरनुगमनीया इत्याह-क्षेत्रकाल इत्यादि। क्षेत्रादीनां अल्पबहुत्वान्तानां द्वन्द्वः / द्वन्द्वसमासाभिनिवृत्ताच्च प्रातिपदिकात् तृतीयार्थे तसिः / सिद्धिविशेषस्यानेकाश्रयत्वाद साध्यवचनम् / क्षेत्रादीनि च द्वादशापि द्वाराणि प्रतिपदं दर्शयति भाष्येण भा०-क्षेत्रं, कालः, गतिः, लिङ्गं, तीर्थ, चारित्रं, प्रत्येकबुद्धयोषितः, ज्ञान, अवगाहना, अन्तरं, सङ्ख्या, अल्पबहुत्वमित्येतानि बादशानुयोगबाराणि सिद्धस्य भवन्ति।