________________ सूत्रं 6 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 303 सम्यग्दर्शनादिसलिलक्लेदात् प्रहीणाष्टविधकर्ममृत्तिकालेपः ऊर्ध्वगौरवादूर्ध्वमेव गच्छत्या लोकान्तात् // स्यादेतत् / लोकान्तादूर्व मुक्तस्य गतिः किमर्थं न भवतीति / अत्रोच्यते टी-एवमूर्ध्वगौरवेत्यादि / संसारोदधौ भवसलिले भवः औदारिकादिकायनिवृत्तिः / भव एव सलिलं तत्र मनो भवासक्तः शरीरी अनियमेन अधस्तिर्यगृवं च गच्छति / ततः सम्यग्दर्शनज्ञानावरणसलिलाीकृतपहीणाष्टविधकर्ममृत्तिकालेपः ऊर्ध्वमेव गच्छति आ लोकान्तादिति / स्यादेतदित्यादिना इदमाशङ्कते-ऊर्ध्व गच्छत्या लोकान्तादिति को नियमः 1 स्वाभाविक्या गत्या लोकान्तादपि परेण गच्छतु गतेर्निवारकस्याभावादिति / अत्रोच्यते ___ भा०-धर्मास्तिकायाभावात् / धर्मास्तिकायो हि जीवपुद्गलानां गत्युपग्रहेणोपकुरुते / स तत्र नास्ति / तस्माद् गत्युपग्रहकारणाभावात् परतो गतिर्न भवत्यप्सु अलावुवत् / नाधो न तिर्यगित्युक्तम् / तत्रैवानुश्रेणिगतिर्लोकान्तेऽवतिष्ठते मुक्तो निष्क्रिय इति॥६॥ टी-धर्मास्तिकायाभावादिति / अस्त्येव निवारक धर्मद्रव्यं तद्यपेक्षाकारणं स्वयमेव गतिपरिणतस्य जीवपुद्गलद्रव्यस्य धर्मद्रव्यमुपग्राहकं भवति मीनस्येव वारिद्रव्यम् , न त्वगच्छन्तं झष बलाद् वारि नयति / एवं गतिपरिणतस्यात्मनः पुद्गलस्य वा स्वत एव गत्युपग्रहा कारी धर्मास्तिकायः कारणीभवति / स च लोकात् परतो नास्ति / तस्माद् गत्युपग्रहकारिणोऽभावात् परतो गतिर्नास्ति अप्सु यथाऽलाबुनः / अलाबु हि मृल्लेपापगमात् स्वयमेव गच्छज्जलमस्तकप्रविष्टं भवति, न परतो याति, उपग्राहकजलद्रव्याभावात् / ऊवमेव च प्रयाति, नाधो न तियोगत्युक्तमेव / तत्रैवानुश्रेणिगतिर्लोकान्तेऽवतिष्ठत इति / यत्र देशे स्थितो मुच्यते समस्तैः कर्मभिस्तत्र या शरीरस्योपरि रुद्धा श्रेणिर्नभसस्तयैव गत्वा लोकान्तेऽवतिष्ठते मुक्तात्मा निष्क्रिय इति // यथोक्तम् "धर्माभावाचालोके स प्रतिहन्यते न लोकाग्रे // [ न तु स्पर्शित्वात् ] गमनोपकृद्विधर्मो जीवानां पुद्गलानां च // 1 // मुक्तोऽनन्तं कालं गच्छत्युपरीति वाऽप्यनुपपन्नम् / मुक्तस्य संमृतिर्हि न युक्ता भ्रमणं हि संसारः // 2 // संसारिणस्तु विश्रमणमस्ति तस्य न महाननर्थः स्यात् / अपि चालोकोऽभीष्टः स च कृतकृत्यस्तथाऽऽत्मवशः // 3 //