________________ 302 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 10 सच गतिपरिणाम ऊर्ध्वमेव भवति नास्तिर्यग वा / पूर्वाभिहितहेतुनिरपेक्ष ऊर्ध्वगौरवप्रयोगपरिणामाद् विना असङ्गयोगं चान्तरेणेत्यादि / तदाह भा०-गौरवप्रयोगपरिणामासङ्गयोगाभावात् / तद्यथा-गुणवद्भमिभागारोपितमृतुकालजातं बीजोद्भेदादङ्कुरप्रवालपर्णपुष्पफलकालेषु अविमानितसेकदोहृदादिपोषणकर्मपरिणतं कालच्छिन्नं शुष्कमलाबु अप्सु न निमज्जति / टी०-गौरवप्रयोगपरिणामासङ्गयोगाभावादित्यादि / तद्यथेत्यादिना दृष्टान्तमाह-अलाबुनोऽवस्थाः पूर्विका विशेष्यन्ते / गुणवद्भूमिभागारोपितमिति बीजावस्था / गुणवान् भूमिभागोऽनुपहतः क्षार-मूत्र-पुरीषादिभिः तत्रारोपितं निखातं सत् काले-वर्षासु . जातं ततश्चोच्छ्नावस्थाद् बीजोरेदादङ्कुरः प्रवालं किसलयं पणं जरठ अलाबुनोऽवस्थाः // " ततः पुष्पं ततः फलं एषां बीजारोपणोद्भेदादङ्करप्रवालपर्णपुष्पफलानां कालेषु स्वेषु स्वेषु विमानितः प्राप्तकालो न कृतः कृतस्त्वविमानितः सेको दौहृदश्च / आदिग्रहणादस्थि-धूम-भस्मावगुण्ठनादिपरिग्रहः / एवमादिना पोषणकर्मणा परिणतंजरठीभूतं पकं काले परिपाकोत्तरकालच्छिन्नं शुष्कमलाबु अप्सु न निमज्जतिन जलेऽन्तः प्रविशति / सर्वेषां विशेषणानामिदं फलं निरुपहतं वातेनानाश्लिष्टं अशुषिरमिति / भा०-तदेव गुरुकृष्णमृत्तिकालेपैनैर्बहुभिरालिप्तं धनमत्तिकालेपवेष्टनजनितागन्तुकगौरवमप्सु प्रक्षिप्तं तंजलप्रतिष्ठं भवति। यदा त्वस्याद्भिः क्लिन्नो मृत्तिकालेपो व्यपगतो भवति तदा मृत्तिकालेपसङ्गनिर्मुक्तं मोक्षानन्तरमेवोवं गच्छति आ सलिलोवंतलात्। टी०–तदेव च पुनर्गाः कृष्णमृत्तिकाया लेपैर्घनैः-निरन्तरैर्बहुभिः-अष्टाभिदर्भवेष्टने कालमालिप्तः तेन च घनमृत्तिकालेपेन वेष्टनेन च दर्भादिजनितमागन्तुकं गौरवं यस्य तदेवंविधमप्सु प्रक्षिप्तं तेजलप्रतिष्ठं भवति उत्तरकालम् / यदा त्वस्याद्भिः सम्बन्धतः क्लिन्नो मृत्तिकालेपो व्यपगतो भवति तदा तत्सङ्गविनिर्मुक्तं दर्भादिबन्धनमृत्तिकामोक्षणसमनन्तरमेवोर्ध्व गच्छत्या सलिलोवतलादित्येष दृष्टान्तः / सम्प्रति दान्तिकं दर्शयति भा०–एवमूर्ध्वगौरवगतिधर्मा जीवोऽप्यष्टविधकर्मलेपमृत्तिकाऽवेष्टितस्तत्सङ्गात् संसारमहार्णवे भवमलिले निमग्नो भवामक्तोऽधस्तिर्यगूज़ च गच्छति 1 'तना' इति ज-पाठः। 2 मृत्तिकावेष्टन' इति ग-पाठः / 3 तलप्रविष्टं' इति ग-पाठः / वेटनकाल' इति च-ज-पाठः। 5 'तलप्रतिष्ठं ' इति च-ज-पाठः। 6 'सम्बन्धेन इति ग-पाठः / ७'मृत्तिकावेष्टितः सन् संसार.' इति ग-पाठः /