________________ सूत्रं 6 ] - स्वोपज्ञभाष्य-टीकालङ्कृतम् ___ भा०–अतोऽन्यासङ्गादिजनिता गतिर्भवति / यथा सत्स्वपि प्रयोगादिषु गतिकारणेषु जातिनियमेनाधस्तियंगूधं च स्वाभाविक्यो लोष्टवावग्ननिां गतयो दृष्टास्तथा सङ्गविनिमुक्तस्योर्ध्वगौरवादूर्ध्वमेव सिध्यमानगतिर्भवति। संसारिणस्तु कर्मसंङ्गादधस्तिर्यगूर्व च / किञ्चान्यत् टी०-अतोऽन्येति स्वाभाविकी गतिमपहाय सङ्गादिजनिता गतिर्भवति / सङ्ग:कर्मकृतं स्खलनम् / आदिग्रहणात् अभिधातप्रेरणादिषु गमनकारणेषु / 'जातिनियमेन' जातिः पृथिव्य-निला-ऽनलव्यक्तिभेदेन भिन्ना / पृथिवीत्व-वायुत्वा-ऽग्नित्वाख्या तया नियमः क्रियते / तत्र पृथिवीत्वनियमेनाधोगतिर्लोष्ठः। यो हि बादरः पृथिवीपरिणामः स सर्वोऽधोगतिः। एवं तिर्यग्गतिर्वायुः / ऊर्ध्वगतिर्दहनः / स्वजातिनियमेनैवमेषामेताः स्वाभाविक्यो गतयो यथा तथा सङ्गविनिर्मुक्तस्य-कर्मकृतस्खलनरहितस्य ऊर्ध्वगौरवात् परिणामविशेषादूर्ध्वमेव सिध्यमानगतिर्भवति / संसारिणस्तु-नरकादिगतिचतुष्टयवर्तिनः संसारे परिभ्रमतः कर्मसङ्गात्-कर्मजनितस्खलनादधस्तिर्यगूर्व चानियमेन गतिर्भवति // किश्चान्यदिति युक्त्यन्तरोपन्याससूचनम् / भा०-बन्धच्छेदात्। यथा रज्जुबन्धच्छेदात् पेडाया बीजकोशबन्धनच्छेदाचैरण्डबीजादीनां गतिदृष्टा तथा कर्मबन्धनच्छेदात् सिध्यमानगतिः // किश्चान्यत टी-बन्धच्छेदादिति / बध्यते येन रज्ज्वादिना स बन्धः / तस्य छेदः शस्त्रेण त्रोटनं वा / तद् व्याचष्टे-यथा रज्ज्वा गाढमापीड्यापीड्य बद्धायाः कीचकविदलघटितायाः रज्जुबन्धच्छेदादुपरितनपुटस्य गमनमूचे दृष्टं बीजकोशबन्धच्छेदाच बीजकोशः फलीफलं वा तस्यास्तु बन्धनं गाढसम्पुटता सवितृकरजालशोषितायाः परिणतिकाले सम्पुटोद्भेदः छेदः / ततश्च एरण्डादिफलभेदे बीजानां गतिर्दृष्टा / तानि तूड्डीयोड्डीय दूरे पतन्ति तथा कर्मबन्धः फलकडाहस्थानीयस्तच्छेदात्-तद्विघटनादनन्तरमेवोर्ध्व सिध्यमानगतिरिति // किश्चान्यदिति विवक्षितार्थप्रसाधनाय हेत्वन्तरमुपादत्ते भा०–तथागतिपरिणामाच / ऊर्ध्वगौरवात् पूर्वप्रयोगादिभ्यश्च हेतुभ्यस्तथाऽस्य गतिपरिणाम उत्पद्यते येन सिध्यमानगतिर्भवति, ऊँवं नास्तिर्यग् वा॥ टी-तथागतिपरिणामाचेति / तथा-तेन प्रकारेण सर्वकर्मविनिर्मुक्तस्यास्य गतिपरिणामो भवति विगतयोगस्यापि / चशब्दः समुच्चये / एभ्यश्च पूर्वोक्तहेतुभ्यः-ऊर्ध्वगौरवात् पूर्वप्रयोगादिभ्यश्च गतिपरिणाम उत्पद्यते येन सिध्यमानगतिर्भवतीति / १'वाद्यादीनां' इति ग-पाठः। 2 'संयोगा०' इति ग-पाठः। ३'हेम' इति ज-पाठः / ४'ऊर्ध्वमेव भवति' इति घ-पाठः /