________________ 300 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 10 सूत्रम्-पूर्वप्रयोगाद् , असङ्गत्वाद्, बन्धच्छेदात्, तथागतिपरिणामाच तद्गतिः // 10-6 // मुक्तिगमने हेतवः भा०-पूर्वप्रयोगात् / यथा हस्तदण्डचक्रसंयुक्तसंयोगात् पुरुषप्रयत्नतश्चाविद्धं कुलालचक्रमुपरतेष्वपि पुरुषप्रयत्नहस्तदण्डचक्रसंयोगेषु पूर्वप्रयोगाद भ्रमत्येवा संस्कार परिक्षयात् / ___०-उपरतकर्तृव्यापाराद् यथा कुलालचक्रं 'हस्तदण्डचक्रसंयुक्तसंयोगात्' हस्तेन दण्डः संयुक्तः, दण्डेन चक्रं संयुक्त संयुक्तसंयोगः तस्मात् पुरुषप्रयत्नतश्च-पुरुषपरिस्पन्दाच आविर्द्ध-वेगितं प्रेरितं उपरतेष्वपि पुरुषव्यापारादिषु पूर्वप्रयोगात् हस्तादिव्यापारप्रेरणाद् भ्रमत्येव आ संस्कारपरिक्षयात् / संस्कारः-अनवरतक्रियाप्रबन्धः। दृष्टान्तेन दार्शन्तिकमर्थ समीकुर्वन्नाह भा०-एवं यः पूर्वमस्य यत्कर्मणा प्रयोगो जनितः स क्षीणेऽपि कर्मणि गतिहेतुर्भवति / तत्कृता गतिः / किश्चान्यत्- . टी.-एवं यः पूर्वमस्येत्यादि / योगनिरोधाभिमुखस्य यत् कर्म-क्रिया तेन कर्मणा यः प्रयोगो जनितः स क्षीणेऽपि कर्मणि अविच्छिन्नसंस्कारत्वात् योगाभावेऽपि गतिहेतुभवति / तेन हेतुना क्रियते गतिरित्यर्थः / किश्चान्यदिति द्वितीय हेत्वन्तरमुपन्यस्यति भा०-असङ्गत्वात्। पुद्गलानां जीवानां च गतिमत्त्वमुक्तं, नान्येषां द्रव्याणाम् / तत्राधोगौरवधर्माणः पुद्गलाः, ऊर्ध्वगौरवधर्माणो जीवाः / एष स्वभावः / टी.-असङ्गत्वादिति / सङ्गः-स्खलनं तद्भावः सङ्गत्वं, स्खलितत्वमित्यर्थः। न सङ्गत्वमसङ्गत्वम्-अस्खलितत्वं तस्मादसङ्गत्वात् सिद्धस्योवें गतिः सिद्धा। न हि स्वाभाविक्या गत्या गच्छमूवं कचित् स्खलनमासादयति / एतयाख्यानायाह-पुद्गलानामित्यादि / पूरणाद् गलनाच पुद्गला:-परमाणुप्रभृतयः। जीवास्तु ज्ञानदर्शनोपयोगलक्षणाः। एषां पुद्गलजीवानां गतिमत्त्वमुक्तं, नान्येषां-धर्माधर्माकाशद्रव्याणाम् / तत्र स्वभावत एव अध:अधस्तात् गौरवं भारिकत्वं, परिणामविशेषः / गौरवं धर्मो येषां ते गौरवधर्माणः पुद्गलाः ऊर्ध्वगौरवधर्माणो जीवा इति / जीवानामपि तादृशं गौरवं परिणामविशेषो लापर्व येषामिति / एवंविधं तेषां गौरवं विशिष्टं येनोवं गच्छन्ति एषा(ष 1) पुद्गलानां च स्वभावः / १'चक्रसंयोगात् ' इति ग-पाठः। 2 'मस्य कर्मणा' इति घ-पाठः। 'मिल्यस्य ' इति च-पाठः / 'गतित्व' इति ग-पाठः /