________________ सूत्र 5] . मतान्तरम् स्वोपज्ञभाष्य-टीकालङ्कृतम् 299 भूमिमित्याह-आ लोकान्तात् पञ्चास्तिकायसमुदायो लोकः तस्यान्तो-मस्तकः, तत्रेपत्प्राग्भारा नाम क्षोणी तुहिनसकलधवला उत्तानकच्छत्रकाकृतिः / तस्याश्योपरि योजनमेक लोकः, तस्याधस्तनकोशत्रयं हित्वा तुरीयक्रोशस्य उपरितनके षड्भागे त्रयस्त्रिंशदुत्तरधनुस्त्रिशतीसम्मिते धनुविभागाधिके लोकान्तशब्दो वर्तते। आङो मर्यादायां प्रयोगः आँ उदकान्तादिति यथा, एवमा लोकान्ताद् गच्छति, न ततः परमिति / तस्य च मुक्तात्मनो देहवियोगः सर्वात्मना तैजस-कार्मणयोः क्षयः। सिध्यमानगतिरिति ताच्छील्ये वाऽनङ्-सेधनशील एवासौ नान्यशीलोऽवश्यमेव सिध्यति तस्य गतिरितो गमनं मुक्तस्य सतः लोकान्तप्राप्ति:-लोकान्तेऽवस्थानं एतस्त्रितयमप्येकेन समयेन परमनिरुद्धेन कालविशेषेण युगपद् भवति / गतिश्च समयान्तरं प्रदेशान्तरं वाऽस्पृशन्ती भवति / तस्य ___ अचिन्त्यसामर्थ्याचैतत् सर्वं युगपद् भवति / / देहवियोगादि केचिदाहुः कर्मक्षयकालश्च देहवियोगादिसमकाल एव भवतीति / भा०-तद्यथा-प्रयोगपरिणामादिसमुत्थस्य गतिकर्मण उत्पत्तिकार्यारम्भविनाशा युगपदेकसमयेन भवन्ति तत् // 5 // टी-तद्यथेत्यादिना दृष्टान्तयति-प्रसिद्धेन दृष्टान्तवस्तुना सिद्धस्य उत्पादादीनामेककालता साध्यते / प्रयोगो वीर्यान्तरायक्षयोपशमात् क्षयाद वा चेष्टास्वरूपः परिणामः प्रयोगपरिणामः / आदिग्रहणात् स्वाभाविको वा। परमाण्वादीनां गतिपरिणामस्तत्समुत्थस्यतस्माज्जातस्य गतिकर्मणो-गतिक्रियाविशेषस्य कार्यद्वारेणोत्पत्तिकालः कार्यारम्भश्च कारणविनाशश्च पर्यायान्तरेण द्यणुकादिकार्यारम्भः पूर्वपर्यायेण विनाशस्तद्वत् सिद्धस्यापि कर्मक्षयदेहवियोगादयः समकाला एकसमयेन भवन्तीत्यर्थः / उत्पादेविगमस्थानवदिति सुज्ञानम् // 5 // भा०-अत्राह-प्रहीणकर्मणो निरास्रवस्य कथं भवतीति / अनोच्यते टी०-अत्राहेत्यादि सूत्र सम्बभाति / प्रहीणकर्मण इति क्षपितनिरवशेषकर्मराशेनिरास्रवस्य-निरस्तकायवाश्मनोयोगस्य कथं-केन प्रकारेण गतिः-लोकान्तप्राप्तिर्भवति / एवं मन्यते—योगाभावात् स तदा निष्क्रियोऽगतिश्च (अ)क्रियातो लोकान्तगमनमनुपपन्नमिति प्रश्नयति / अत्रोच्यते-यथा गमनं समस्ति मुक्तात्मनस्तथोच्यते १'सहेश' इति हु-पाठः। २'कच्छपाकृतिः' इति उ-पाठः / 3 'अत्रोदकान्ता.' इति कु-पाठः, 'अत्रेदं कान्ता' इति तु च-ज-पाठः ।४'विनाशस्थान' इति ग-पाठः। 5 'लोकगमन' इति -पाठः।