________________ 298 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 10 टी०-'उपशमे भवः उपशमेन वा निवृत्तः औपशमिकः, स आदिर्येषां ते इमे औपशमिकादयः। आदिग्रहणेन क्षायिक-क्षायोपशमिकौ-दयिक-पारिणामिका गृहीताः / सेत्स्यल्लक्षणं भव्यत्वं औपशमिकादयश्च भव्यत्वं च औपशमिकादिभव्यत्वानि / एषामभावः औपशमिकादिभव्यत्वाभावः / चशब्दः समुच्चये / औपशमिकाद्यभावाद् भव्यत्वाभावाच मुक्तात्मा भवति / किं सर्वेषामौपशमिकादीनामभावः / तदुच्यते-अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः शेषा न सन्ति / औपशमिक-क्षायोपशमिको-दयिकाः सर्वथा न सन्त्येव / क्षायिके तु भावे केवलसम्यक्त्वं, क्षायिकसम्यक्त्वमित्यर्थः / केवलज्ञानं केवलदर्शनं सिद्धत्वं च सम्भवति मुक्तात्मनि / पारिणामिके तु भावे भव्यत्वमेव केवलं सिद्धे न सम्भवति / तच्चौपशमिकादिग्रहणाद भव्यत्वं सङ्ग्रहीतमेव, किमर्थं पुनर्भव्यत्वग्रहणम् ? उच्यते-पारिणामिकभावे भव्यत्वमेव केवलं सिद्धे न समस्ति, शेषाः पारिणामिकाः प्रायेण सन्तीति ज्ञापनार्थम् / अस्तित्व-गुणवत्त्वा-ऽनादित्वा-ऽसख्येयप्रदेशवत्त्व-नित्यत्वादयः सन्त्येव / एतदनुसारिभाष्यम् भा०-औपशमिक-क्षायोपशमिको-दयिक-पारिणामिकानां भावानां भव्यत्वस्य चाभावान्मोक्षो भवति अन्यत्र केवलसम्यक्त्व-केवलज्ञान-केवलदर्शन-सिद्धत्वेभ्यः / एते ह्यस्य क्षायिका नित्यास्तु मुक्तस्यापि भवन्ति // 4 // टी.-औपशमिकेत्यादि / औपशमिकादयः कृतद्वन्द्वाः षष्ठीबहुवचनेन निर्दिष्टाः / एषामभावाद् भव्यत्वाभावाच मोक्षः / अन्यत्र केवलसम्यक्त्वादिभ्यः इत्युपपदलक्षणा पञ्चमी / दर्शनसप्तकक्षयात् क्षायिक केवलसम्यक्त्वं, समस्तज्ञानावरणक्षयात् क्षायिक केवलज्ञानं अशेषदर्शनावरणक्षयात् क्षायिक केवलदर्शनं, समस्तकर्मक्षयात् सिद्धत्वमित्येते क्षायिका भावा यस्मान्नित्यास्तस्मान्मुक्तस्यापि भवन्तीति // 4 // स पुनर्मुक्तात्मा यत्र मुक्तः समस्तकर्मभिः किं तत्रैवावतिष्ठते उतान्यत्रेति पृष्टे जगाद सूत्रम्-तदनन्तरमूर्ध्वं गच्छत्या लोकान्तात् // 10-5 // भा०-तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरं औपशमिकाद्यभावानन्तरं चेत्यर्थः / मुक्त ऊर्ध्वं गच्छत्या लोकान्तात् / कर्मक्षये देहवियोग-सिध्यमानगतिलोकान्तप्राप्तयो यस्य युगपदेकसमयेन भवन्ति / टी०–तच्छब्देन कृत्स्नकर्मक्षयः परामृश्यते औपशमिकादिभव्यत्वाभावो वा / तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरं अनु सन्ततमेव मुक्तः सन्नूर्ध्वमेव गच्छति / कियतीं 1 उपशमनेन ' इति ग-पाठः। 2 'सिद्धा न सन्ति' इति ङ-पाठः। 3 'कादीनां ' इति ग-पाठः / 4 'केवलदर्शनं' इति ङ-पाठः। 5 स्य ' इति घ-पाठः।