________________ सूत्रं 4 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 297 नामकर्मप्रकृतयश्च त्रयोदश, दर्शनावरणप्रकृतयश्च तिस्रः / क्रमेणानेनाप्रत्याख्यानाः क्रोधादयश्चत्वारः, प्रत्याख्यानावरणाः क्रोधादयश्चत्वारः, नरकगतिः, नरकगत्यानुपूर्वी, तिर्यग्गतिः, तिर्यग्गत्यानुपूर्वी, एक-द्वि-त्रि-चतुरिन्द्रियजातयः, आतपं, उद्योतं, स्थावरं, सूक्ष्म, साधारणं च / निद्रा. निद्रा प्रचलाप्रचला स्त्यानर्द्धिः। ततो नपुंसक-खीवेदौ हास्य-रत्य-रति-शोक-भय-जुगुप्साः पुरुषवेदश्च संज्वलनक्रोधमानमाया इति सूक्ष्मसम्परायस्थाने चरमसमये कस्मिन् गुण- संज्वलनलोभः क्षीणः / ततः क्षीणकपायस्थाने निद्रा-प्रचले द्वे द्विचरमस्थाने कस्याः प्रतः समये क्षीणे / चरमसमये तु प्रकृतयश्चतुर्दश क्षीणाः-ज्ञानदर्शनावरण विघ्नानि पञ्च-चतुः-पञ्चभेदानि। अयोगिकेवलिनो द्विचरमसमये नामप्रकतयः पञ्चचत्वारिंशत् क्षीणाः / ताश्चेमाः-देवगतिः, औदारिकादिशरीरपञ्चकं, संस्थानषट्क, अङ्गोपाङ्गत्रय, संहननषट्कं, वर्ण-गन्ध-रस-स्पर्शचतुष्टयं, मनुष्यदेवगत्यानुपूव्यौं, अगुरुलघु, उपघातं, पराघातं, उच्छ्वासः, प्रशस्तविहायोगतिः, अप्रशस्तविहायोगतिः, अपर्याप्त, प्रत्येकं, स्थिरं, अस्थिरं, शुभ, अशुभं, दुर्भगं, सुस्वरं, दुःस्वरं, अनादेयं, अयशःकीर्तिः, निर्माणम् / बाह्ये च द्वे अन्यतैरवेदनीये नीचैर्गोत्राख्ये क्षीणे तीर्थकराऽयोगकेवलिनश्चरमसमये द्वादश क्षीणाःअन्यतरवेद्य, उच्चर्गोत्रं, मनुष्यायुः, नव च नामप्रकृतयः। तद्यथा-मनुष्यगति-पञ्चेन्द्रियजाति-त्रस-बादर-पर्याप्त सुभगा-ऽऽदेय-यश-कीर्ति-तीर्थकराख्याः / अतीर्थकराज्योगकेवलिनस्तु चरमसमये एता एवैकादश क्षीणाः तीर्थकरनामवर्जाः / मनुष्यायुश्चैकमेव बद्धं, न शेषाणीत्येकमेव गण्यते / एवं तत्क्षयसमकालमेव-सकलकर्मक्षयतुल्यकालमेव औदारिकशरीरवियुक्तस्यास्य मनुष्यजन्मनःप्रहाणम्-उच्छेदः। बन्धहेत्वभावाचोत्तरजन्मनोऽप्रादुर्भावः / एषाऽवस्थितिः पूर्वजन्मन उच्छेद उत्तरजन्माप्रादुर्भावः। केवल आत्मा ज्ञानाधुपयोगलक्षण: शुद्धः, इत्येषाऽवस्था कृत्स्नकर्मक्षयलक्षणो मोक्ष इत्याख्यायते / अवस्थाग्रहणमास्मानुच्छेदप्रतिपादनार्थमिति // 3 // किश्चान्यदित्यनेन तस्यामवस्थायां प्रष्टव्यशेषमाशङ्कते-"औपशमिक-क्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च" (अ० 2, सू० 1) इत्युक्तं जीवस्वतत्त्वम् / तत् किं तस्यामवस्थायां सकलमेव परिशटति उत नैव क्षीयते किश्चित् आहोस्वित् किञ्चन परिशटति किश्चिन्नेति सन्देहापनयनार्थमाह सूत्रकारः सूत्रम्-औपशमिकादिभव्यत्वाभावाचान्यत्र केवलसम्यक्त्व-ज्ञानदर्शन-सिद्धत्वेभ्यः॥ 10-4 // २'तरवेद्य' इति -पाठः / 3 'सुभगोदय' इति उ-पाठः। 1 'रिकशरीर' इति ङ-पाठः। 4 'गम्यते' इति ङ-पाठः /