________________ 296 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 10 निष्ठा / बुध्यतेरकर्मकत्वात् सुप्तविबुद्धवल्लोके प्रयोगदर्शनादकर्मकत्वम् / बुध्यत इति बुद्धा, ज्ञानस्वभाव इत्यर्थः / केवलज्ञानेन सर्व जानीत इति सर्वज्ञः / केवलदर्शनेन सर्वे पश्यतीति सर्वदर्शी / रागद्वेषमोहजिजिनः / केवली केवलज्ञानदर्शनसम्भवात् / तत उत्पन्नकेवलज्ञाना प्रतनूनि स्वल्पानुभावानि शुभविपाकानि च प्रायश्चत्वारि कर्माण्यवशेषाणि यस्य वेद्या-ऽऽयुर्नाम-गोत्राणि स चायुषः कर्मणः संस्कारवशात्, प्रतिक्षणमनुवृत्तिः संस्कारः, तशाद विहरति भव्यजनकुमुदवनबोधनाय शीतरश्मिरिव कदाचिद् ध्याति विहरति तिष्ठनपि वा / विविधं रजो हरतीति विहरति // 2 // ततोऽस्य विहरत उक्तेन विधिना आयुष्ककर्मपरिसमाप्तावितराण्यपि त्रीणि कर्माणि क्षीयन्ते / अतः-- सूत्रम्-कृत्स्नकर्मक्षयो मोक्षः // 10-3 // टी-कृत्स्नं सम्पूर्ण निरवशेष ज्ञानावरणाद्यन्तरायपर्यवसानमष्टविध मूलप्रकृतिवाच्य, उत्तरप्रकृतीनां तु द्वाविंशत्युत्तरं शतम् / एतत् कृत्स्नं कर्म तस्य क्षयः-शाटः आत्मप्रदेशेभ्योऽपगमः / कर्मराशेर्मोक्षः, आत्मनः स्वात्मावस्थानमिति // भा०-कृत्स्नकर्मक्षयलक्षणो मोक्षो भवति / टी.-कृत्स्नकर्मक्षयलक्षण इत्यादि भाष्यम् / कृत्स्नकर्मक्षयो लक्षणं यस्य मोक्षस्य / कृत्स्नकर्मविमुक्त्या आत्मा मुक्त इति लक्ष्यते / स एव मोक्षः सकलकर्मविमुक्तस्य ज्ञानदर्शनोपयोगलक्षणस्यात्मनः स्वात्मन्यवस्थानं मोक्षः, न पुनरात्माभाव एव / परिणामिनो निरन्वयनाशे न तेदुपपत्तिदृष्टान्तौ परिणामित्वादेव ज्ञानाद्यात्मा न सोऽभावः / स च कर्मणामपगमः क्रमेणामुनेति दर्शयति भा०-पूर्व क्षीणानि चत्वारि कर्माणि पश्चाद् वेदनीय-नाम-गोत्रा-ऽऽयुष्कक्षयो भवति / तत्क्षयसमकालमेवौदारिकशरीरवियुक्तस्यास्य जन्मनः प्रहाणम् / हेत्वभावाचोत्तरस्याप्रादुर्भावः / एषाऽवस्था कृत्स्नकर्मक्षयो मोक्ष इत्युच्यते॥३॥ किश्चान्यत् टी०-केवलज्ञानोत्पत्तेः प्राक्-पूर्व मोहनीयज्ञानदर्शनावरणान्तरायाख्यानि चत्वारि घातिकर्माणिक्षीणानि / ततः केवलज्ञानोत्पत्तिः पवाद घेदनीय-नाम-गोत्रा-ऽऽयुष्कक्षयो भवतीति / केवलज्ञानोत्पादात् पश्चावेदनीयादीनि चत्वारि कर्माणि क्षयं प्रतिपद्यन्ते भवधारणीयानि / तत्र का प्रकृतिः क गुणस्थाने क्षीणेति प्रपञ्चेन प्रदर्श्यते-अविरतसम्यग्दृष्टि-देशयति-प्रमत्ताप्रमत्तस्थानानामन्यतमस्थाने मोहनीयप्रकृतयः सप्त क्षीणाः, अनन्तानुबन्धिनश्चत्वारः सम्यक्त्व-मिथ्यात्व-तदुभयानि च / अतोऽनिवृत्तिस्थाने मोहनीयप्रकृतयो विशतिः क्षीणाः, 'तदुत्पत्ति ' इति -पाठः।।