________________ सूत्र 2] . स्वोपज्ञभाष्य टीकालङ्कृतम् 295 भा०-मिथ्यादर्शनादयो बन्धहेतवोऽभिहिताः (पृ० 121) / तेषामपि सदावरणीयस्य कर्मणः क्षयाभावो भवति संम्यग्दर्शनादीनां चोत्पत्तिः / "तत्त्वार्थश्रद्धानं सम्यग्दर्शनं" (अ० 1, सू०२), " तन्निसर्गाद्धिगमाद् वा" (अ० 1, सू० 3) इत्युक्तम् // टी-मिथ्यादर्शनादय इत्यादि भाष्यम्। प्रागभिहिता मिथ्यादर्शनादयस्तेषामपि मिथ्यादर्शनादीनां बन्धहेतूनां तदावरणीयस्य कर्मणः क्षयाभावो भवति / मिथ्यादर्शनं अज्ञानविशेषः / ज्ञानावरणीयेन कर्मणा ज्ञानमेवाच्छादितं सदज्ञानमुच्यते / अन्यथा व्यवस्थितान् जीवादिपदार्थान् अन्यथा-वैपरीत्येन प्रतिपद्यते, अत आह-तदावरणीयस्य कर्मणः क्षयादात्यन्तिकात् तस्य मिथ्याज्ञानस्य यदावरणं तदभावान्मिथ्यादर्शनाभावः / नाप्यविरतिप्रमाद-कपाया-दर्शनावरणमोहक्षयात् योगनिरोधकाले च योगनिमित्तोऽप्यपैति बन्धः / इत्थं बन्धहेत्वभावे सति निर्जरणमुपचितस्य कर्मणोऽन्त्यकाले समस्ति / सम्यग्दर्शनज्ञानावरणानां घोत्पत्तिः प्रागभिहितानामुपलक्षयति-"तत्त्वार्थश्रद्धानं सम्यग्दर्शनं" (अ० 1, सू०२) "तन्निसगोदधिगमाद् वा" (अ० 1, सू०३) इत्युक्तैव न पुनरपि व्याख्यायते। अथवा सर्वमेतत् पूर्वमुक्तम् / भा०--एवं संवरसंवृतस्य महात्मनः सम्यग्व्यायामस्याभिनवस्य कर्मणः उपचयो न भवति। _____टी०-एवं संवरसंवृतस्येत्यादि / एवम् उक्तेन प्रकारेण बन्धहेत्वसम्भव एव संवरस्तेन संवृतस्य-स्थगितसकलास्रवद्वारस्य महात्मनः परमातिशयसम्पन्नस्य सम्यग्व्यायामस्यसम्यकक्रियानुष्ठायिनः छद्मस्थस्य सयोगिकेवलिनश्च निरुद्धसकलयोगस्य च अभिनवस्यापूर्षकर्मणः उपचयो-बन्धो न भवति // भा०-पूर्वोपचितस्य च यथोक्तैर्निर्जराहेतुभिरत्यन्तक्षयः / ततः सर्वद्रव्यपर्यायविषयं पारमैश्वर्यमनन्तं केवलं ज्ञानदर्शनं प्राप्य शुद्धो बुद्धः सर्वज्ञः सर्वदर्शी जिनः केवली भवति / ततः प्रतनुशुभचतु:कमोवशेषः आयुःकर्मसंस्कारवशाद विहरति // 2 // ततोऽस्य टी०-पूर्वोपचितस्य-प्रारबद्धस्य क्षयो यथोक्तैस्तपोऽनुष्ठानादिभिनिर्जराहेतुभिरात्यन्तिको घातिकर्मक्षयः, इतरस्तु भवधारणीयक्षयः / ततो घातिकर्मक्षयात् समनन्तरमेव समस्तद्रव्यपर्यायविषयमित्यनेनैतावदेव ज्ञेयमिति सूचयति। परं-प्रकृष्टमैश्वर्य-विभूतिः परम्असाधारण ईश्वरत्वं ऐश्वर्य अनन्तमपर्यवसानत्वादनुच्छेदित्वात् केवलम्-असहायं मत्यादिरहितं ज्ञानं च दर्शनं च प्राप्य लब्ध्वा शुद्धो धोतोऽपैनीतसकलकर्ममलः / बुद्ध इति कर्तरि 1 'सम्यग्दर्शनज्ञानावरणानां' इति ग-पाठः। 2 'अपगत ' इति ग-पाठः /