________________ 294 तस्वार्थाधिगमसूत्रम् [अभ्यायः 10 अभावोऽपि हि निमित्तं भवति यथा विपक्षे हेतुरभावद्वारेण गमकः / तत्क्षयादुत्पद्यत इति, घातिकर्मक्षयाज्जायत इत्यर्थः / अतस्तद्विगमलक्षणो गुणो हेतुः। "विमापा गुणेऽस्त्रियां" (पा० अ० 2, पा० 3, मू० 25) इति // भा०-हेतौ पञ्चमीनिर्देशः। मोहक्षयादिति पृथकरणं क्रमप्रसिद्धयर्थम् / यथा-गम्येत पूर्व मोहनीयं कृत्स्नं क्षीयते। ततोऽन्तर्मुहर्त छद्मस्थवीतरागो भवति / ततोऽस्य ज्ञानदर्शनावरणान्तरायप्रकृतीनां तिसृणां युगपत् क्षयो भवति। ततः केवलमुत्पद्यत इति // 1 // टी-हेती पश्चमीनिर्देशः / मोक्षयादिति / सापेक्षे कर्मचतुष्टये व्यपेते निरावरणो जीवस्वभावो ज्ञानदर्शनलक्षणः सदा चकास्ति / तस्य च सापेक्षकर्मविगमो निमित्त किरणमालिन इवातिबहलाभ्रपटलाच्छादितमण्डलस्य सङ्कुचितकिरणकलापस्य तदपगमे निराधरणसमस्तगभस्तिविस्तरणवद् विकसति ज्ञानं दर्शनं च / मोहक्षयादिति पृथक्करणं प्रतिविशिष्टक्रमप्रसिद्धयर्थम् / क्रमप्रसिद्धिः यथाऽऽगमे तत् प्राङ्मोहनीयक्षय एव सर्वस्य मुमुक्षोः / ततश्च मोहसागरमुत्तीर्यान्तर्मुहूर्तमानं विश्राम्यति छद्मस्थवीतरागावस्थः / ततोऽस्य ज्ञानदर्शनावरणान्तरायक्षयो युगपदेव भवति / तत्समनन्तरमेव च केवलज्ञानं केवलदर्शनं चोपजनमासादयति / यथोक्तमागमे वीसमिऊण नियंठो” इत्यादि "चरिमे नाणावरणं" इत्यादि // 1 // भा०-अत्राह-उक्तं (पृ० 293) मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच केवलमिति / अथ मोहनीयादीनां क्षयः कथं भवतीति ? / अनोच्यते टी-अत्राह-उक्तमित्यादिनोत्तरसूत्रं सम्बध्नाति / मोहक्षयात् केवलज्ञानो. त्पत्तिः। अथैषां मोहादीनां क्षयः कथं-केन प्रकारेण भवतीति / अयमभिप्रायः प्रश्नयतः-यावदपि सकषाययोगस्तावदपि कर्म सततं बध्नाति कषाययोगप्रत्ययम् / तच प्रतिक्षणं बधन् कथं क्षयं करोतीति ? / अत्रोच्यत इत्याहकर्मपरिक्षये हेतू सूत्रम्-बन्धहेत्वभाव-निर्जराभ्याम् // 10-2 // टी-आत्मप्रेदेशानां कर्मपुद्गलानां चान्योन्यानुगतलक्षणः क्षीरोदकवद् बन्धः / तस्य हेतुर्मिथ्यादर्शनादिपञ्चविधः / तस्य हेतोरभावादपूर्वकर्मागमो नास्ति / प्रथमबद्धस्य च निर्जरणं निर्जरा-आत्मप्रदेशेभ्यः परिशटनं कर्मणः / बन्धहेत्वभावश्च निर्जरा च बन्धहेत्वभावनिर्जरे ताभ्यां हेतुभ्यां कर्मपरिक्षयः / / 1' तथा विपक्षे' इति उ-पाठः। 2-3 छाया विधामयित्वा निर्ग्रन्थः; चरमे ज्ञानावरणम् / 4 'सन्तानं' इति ग-पाठः। ५'प्रदेशिनां' इति ग-पाटः /