________________ श्रीपरमगुरुभ्यो नमः। दशमोऽध्यायः 10 उपक्रमः टी०-निर्दिष्टे संवर-निर्जरे "आस्रवनिरोधः संघरः" (अ० 9, सू०१), " तपसा _ निर्जरा च" (अ० 9, सू० 3) इति / सम्प्रति तत्फलं मोक्षः तं वक्ष्यामः / सच केवलज्ञानोत्पत्तिमन्तरेण न जातुचिदभूद् भवति भविष्यति / अतः केवलोत्पत्तिमेव तावद् वक्ष्यामःसूत्रम्-मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच . केवलम् // 10-1 // टी–अथवा तपसा निर्जरातश्च कर्मणां केवलज्ञानमुत्पद्यते / तत् केषां कर्मणां निर्जरातः केन वा क्रमेण निर्जरणे सति केवलज्ञानमाविर्भवतीति / तानि कर्माणि क्रम चानेन सूत्रेण दर्शयति-मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच केवलम् // भा०-मोहनीये क्षीणे ज्ञानदर्शनावरणान्तरायेषु क्षीणेषु च केवलज्ञानदर्शनमुत्पद्यते / आसां चतसृणां प्रकृतीनां क्षयः केवलस्य हेतुरिति / तत्क्षयादुत्पद्यते इति। .. टी.-मोहनान्मोहोऽष्टाविंशतिमेदः पूर्वोक्तः (पृ० 142) / तस्य क्षयो-निरवशेषतः परिशाटनमात्मप्रदेशेभ्यः / क्षीणे च सकलभेदमोहनीये ज्ञानावरणदर्शनावरणान्तरायेषु च पञ्च-चतुः-पञ्चभेदेषु युगपत् क्षीणेषु-निरवशेषीकृतेषु केवलज्ञानं दर्शनमाविर्भवतिसमस्तद्रव्यपर्यायपरिच्छेदिघातिकर्मविगमादुत्पद्यते / यथोक्तम् " तस्य हि तस्मिन् समये, केवलमुत्पद्यते गततमस्कम् / ज्ञानं च दर्शनं चावरणद्वयसङ्ख्याच्छुद्धम् // 1 // आर्या चित्रं चित्रपटनिर्भ, त्रिकालसहितं ततः स लोकमिमम् / पश्यति युगपत् सर्वे, सालोकं सर्वभावज्ञाः // 2 // " आसामिति सूत्रनिर्दिष्टानां कियतीनाम् ? चतसृणां कर्मप्रकृतीनां कर्मस्वभावानां मोहन आच्छादनं विनकारित्वं चेति स्वभावाः / क्षयो-निःशेषसादः। केवलस्य ज्ञानस्य दर्शनस्य च / हेतुः कारणं निमित्तमिति पर्यायाः / फलसाधनयोग्यः पदार्थो हेतुरिति भाषितः /