________________ 292 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 9 ओ ततियं अणंतभागमभहियं जाव चरिम अर्णतभागमभहियं"। एवं संयमस्थानप्ररूपणा / "एतेसिं चेव जहा भणिताणं संजमहाणाणं असंखिजाणं समुदएणं जं निप्पजइ त कंडगं ति षा अंतरकंडगं ति वा भणइ / एगमि कंडके केवतियाई संजमहाणाई ? असंखिज्जाई असंखिजाहिं उस्सप्पिणीहिं कालओ अवहारंति, खेतओ अंगुलस्स असंखिज्जाई भागेणं // सम्प्रति भाष्यभावना क्रियते / पुलाकादिस्थाननिरूपणद्वारेण निदर्शनमात्रमिदं भाष्यभावनार्थमुपन्यस्तं पुलाकस्य कषायकुशीलस्य सर्वजघन्यानि स्थानान्यधः / ततस्तौ युगपदसङ्ख्येयानि स्थानानि गच्छत्तः, तुल्याध्यवसानत्वात् / ततः पुलाको व्युच्छिचते, हीनपरिणामस्वात् / व्युच्छिन्ने पुलाके कषायकुशीलस्त्वेक एवासङ्ख्येयानि स्थानानि गच्छति, वर्धमानपरिणामत्वात् / ततः कषायकुशील-प्रतिसेवनाकुशील बकुशा युगपदसङ्ख्येयानि स्थानानि प्राप्नुवन्ति / ततश्च बकुशो व्युच्छिद्यते / ततोऽप्यस ङ्ख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते। ततोऽप्यसङ्ख्येयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते। एवमेतानि स्थानानि द्रष्टव्यानि / अत ऊर्ध्वमिति कषायकुशीलव्युच्छेदनादुपरि अकषायस्थानानि निम्रन्थः प्रतिपद्यते / सोऽप्यसङ्ख्यातानि गत्वा व्युच्छिद्यते / अत ऊर्ध्व-निर्ग्रन्थस्थानादुपरि गत्वा निम्रन्थः क्षपितसकलकांशः स्नातको निर्वाणमेवाप्नोति / एषां च पुलाकादीनां संयमलब्धिः संयमस्थानप्राप्तिरुत्तरोत्तरस्यानन्तानन्तगुणा भवतीति भावितमेवेति // 49 // इति श्रीतत्त्वार्थाधिगमेहत्प्रवचनसंग्रहे भाष्यानुसारिण्यां तत्वार्थटीकायां संवरस्वरूपनिरूपको नाम नवमोऽध्यायः समाप्तः // 9 // १एतेषु चैव यथा भणिताना संयमस्थानानाम् असङ्ख्येयानां समुदयेन यत् निष्पद्यते तत् कण्डकमिति वा अन्तरकण्डकमिति वा भणति / एकस्मिन् कण्डके कतिपयानि संयमस्थानानि ?:असलयेयानि असाधाताभिरुत्सर्पिणीमिर कालतोऽवहारन्ति, क्षेत्रतोऽङ्गुलस्य असङ्ख्यातानि भागेन /