________________ सूत्रं 7] . स्वोपज्ञभाष्य टीकालङ्कृतम् .. भा०-चारित्रम् / प्रत्युत्पन्नभावमज्ञापनीयस्य नोचारित्री नोअचारित्री 'सिध्यतीति।' टी०-चारित्रमिति। वर्तमानग्राहिणो नयस्य नोचारित्री नोअचारित्री सिध्यति। नोशब्दः सर्वप्रतिषेधे / नास्त्यस्य चारित्रं सामायिकादि नोअचारित्री द्वौ प्रतिषेधों नत्र चारित्र्येव गम्यते किं तर्हि अचारित्री अविरत इत्यपि वक्तुं न शक्यते / तस्मान्न विरतो नाविरत इति // भा०-पूर्वभावप्रज्ञापनीयो द्विविधः-अनन्तरपश्चात्कृतिकश्च परम्परप वात्कृतिकश्च / अनन्तरपश्चात्कृतिकस्य यथाख्यातसंयतः सिध्यति। परम्परपश्चास्कृतिकस्य व्यञ्जितेऽव्यञ्जिते च। अव्यञ्जिते त्रिचारित्रपश्चात्कृतः चतुश्चारित्रपश्चात्कृतः पश्चचारित्रंपश्चात्कृतश्च / व्यञ्जिते सामायिक-सूक्ष्मसम्पराय-यथाख्यातपश्चास्कृतसिद्धाः छेदोपस्थाप्य-सूक्ष्मसम्पराय-यथाख्यातपश्चात्कृतसिद्धाः सामायिकच्छेदोपस्थाप्य-सूक्ष्मसम्पराय-यथाख्यातपश्चात्कृतसिद्धाः छेदोपस्थाप्य-परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातपश्चात्कृतसिद्धाः सामायिक-उछेदोपस्थाप्यपरिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातपश्चात्कृतसिद्धाः॥ टी०-पूर्वभावप्रज्ञापनीयो द्विधा / अनन्तरस्य पश्चात्कृतिः-पश्चात्करणं यत्रासावनन्तरपश्चात्कृतिको नयः। अस्य तु यथाख्यातचारित्री सिध्यति / इतरस्य व्यञ्जिते-व्यक्तिमापादिते स्पष्टीकृते विशेषिते अव्यञ्जिते सामान्यमाने अविशेषिते वक्तव्यं तत्राव्यञ्जिते त्रिचतुःपञ्चचारित्रपश्चात्कृतः सिध्यति / कानि त्रीणि चारित्राणि चत्वारि पञ्च वा / अतो व्यज्यते-सामायिक, सूक्ष्मसम्परायं, यथाख्यातं च; अथवा छेदोपस्थाप्य सूक्ष्मसम्परायं यथाख्यातमिति त्रिचारित्रस्य विकल्पद्वयम् / चतुश्चारित्रस्यापि विकल्पद्वयमेव सुज्ञानम् / पञ्चचारित्रस्यैक एव विकल्पः॥ भा०—प्रत्येकबुद्धबोधितः / अस्य व्याख्या-विकल्पश्चतुर्विधः / तद्यथा ही अस्ति स्वयम्बुद्धः। स विविध:-अहंश्च तीर्थकरः प्रत्येकबुद्ध- प्रत्येकबुद्धबोधितस्य व्याख्याया- सिद्धक्ष। बुद्धबोधितसिद्धः त्रिचतुर्थो विकल्पः / परबोधकसिद्धाः श्चातुर्विध्यम् स्वेष्टकारिसिद्धाः॥ टी--प्रत्येकबुद्धबोधित इति चतुर्धा यागयते-तीर्थकरः प्रत्येकबुद्धः परबोधकः स्वेष्टकारी चेति / तद्यथेत्यादिना दर्शयति / अस्ति अयम्बुद्धसिद्धः, स्वयमेव बुद्धः, 'सिध्यति' इति घ-पाठः / 2 'पूर्वभावप्रज्ञापनीयस्य नोचारित्री सिध्यतादि इत्यधिको ग-पाठः। 3 'अचरित' इति च-ज-पाठः। 4 'साम्परायिक ' इति घ-पाठः। 5 'सिद्धाः' इति ध-पाठः।