________________ 289 सूत्र 49]. स्वोपज्ञभाष्य टीकालङ्कृतम् प्रतिसेवनाकुशीलो मूलगुणान् प्राणातिपातनिवृत्त्यादीनविराधयन्-अखण्डयनुत्तरगुणेषु मागमे मान्यता दशसु काश्चिद् विराधनां न सर्वो कदाचिदेव प्रतिसेवत इति / अत्राप्यागमोऽन्यथाऽतिदेशकारी-" पंडिसेवणाकुंसीलो जहा पुलागो"। कषायकुशीलस्य निर्ग्रन्थस्नातकयोश्च नास्त्येव प्रतिसेवनेति // भा०-तीर्थम् / सर्वे सर्वेषां तीर्थकराणांतीर्थेषु भवन्ति / मतान्तरम् एके त्वाचार्या मन्यन्ते-पुलाक-बकुश-प्रतिसेवनाकुशीलास्तीर्थे नित्यं भवन्ति, शेषास्तीर्थे वाऽतीर्थे वा // टी-तरन्त्यनेनेति तीर्थ-प्रवचनं प्रथमगणधरो वा / तत्र किं कस्यचिदेव तीर्थकृतस्तीर्थेषु पुलाकादयो भवन्त्युत सर्वेषामेव तीर्थकराणामित्याह-सर्वे सर्वेषामित्यादि / सर्वे पुलाकादयः सर्वेषां तीर्थकृतां तीर्थेषु भवन्ति / एके त्वाचार्या इत्यादि / पुलाको बकुशा प्रतिसेवनाकुशीलश्च नित्यं तीर्थ एव / शेषाः कषायकुशील-निर्ग्रन्थ-स्त्रातकाः .. . तीर्थे भवन्ति / एते कदाचिंदतीर्थेऽपि मरुदेवीप्रभृतयः श्रूयन्त इति / मतमद इदमेव चादेशान्तरमाश्रित्यागममुपलभामहे-"पुलागे णं भंते / किं तित्थे होजा अतित्थे वा होजा? गोयमा! तित्थे होजा नो अतित्थे / एवं उसपडिसेवणाकुसीला वि कसायकुसीला तित्थे वा होजा अतित्थे वा होजा ? एवं नियंठसिणाया वि" // भा०-लिङ्गम् / लिङ्ग विविधं-द्रव्यलिङ्ग भावलिङ्गं च / भावलिङ्ग प्रतीत्य सर्वे पश्च निर्ग्रन्था भावलिङ्गे भवन्ति, द्रव्यलिङ्गं प्रतीत्य भाज्याः / / टी०-लिङ्ग विविधमित्यादि / लिङ्ग-चिह्न मुमुक्षोः / तच्च द्विधा-द्रव्य-भावभेदात् / तत्र द्रव्यलिङ्ग रजोहरण-मुखवस्त्रिकादि / भावलिङ्ग ज्ञान-दर्शन-चारित्राणि / भावलियं प्रतीत्य-निसृत्य सर्वे पश्चापि पुलाकादयो भावलिङ्गे भवन्त्येव / द्रव्यलिङ्ग प्रतीत्य भाज्याः कदाचिद् रजोहरणादि भवति कदाचिन्नेति, मरुदेवी-भरतप्रभृतीनामिति // भा०-लेश्याः / पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति / बकुश-प्रतिसेवनाकुशीलयोः सर्वाः षडपि। कषायकुशीलस्य परिहारविशुद्धस्तिस्र उत्तराः / सूक्ष्म छाया प्रतिसेवनाकुशीलो यथा पुलाकः / 2 ' कुसीले जहा पुलाए ' इति भगवत्या (श० 25, उ०६, सू० 755) / 3 सन्तुल्यतां यदुक्तं भगवत्यां (सू. 758) / 4 छाया पुलाको भदन्त / कि तीथे भवेत् अतीर्थे वा भवेत् ? गौतम | तीर्थे भवत्, नो अतीर्थे / एवं बकुशप्रतिसेवना कुचीला अपि / कषायकुशीलः तीर्थे वा भवेत् अतीर्थे वा भवेत् / एवं निम्रन्थस्नातको अपि /