________________ 288 तत्त्वार्थाधिगमसूत्रम् [अन्यायः 9 उत्तरगुणपडिसेवए य / मूलगुणे पडिसेवमाणे पंचण्हं महव्वयाणं अण्णयरं पडिसेवे उत्तरगुणे पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अण्णयरं पडिसेवेज्जा // " भा०-बकुशो विविधः-उपकरणबकुशः शरीरबकुशव / तत्रोपकर __णाभिष्वक्तचित्तो विविधविचित्रमहाधनापकरणपरिग्रहयुक्तो बकुशस्य वैविध्यम् विशेषोपकरणाकाक्षायुक्तो नित्यं तत्पतिसंस्कारसेवी भिक्षुरुपकरणषकुशो भवति // टी-बकुशो द्विधा-उपकरण-शरीरभेदात् / तत्र-तयोरुपकरणबकुश उपकरणेवस्त्र-पात्रादौ अभिष्वक्तचित्तः-प्रतिबद्धस्नेहः समुपजाततोषः। वस्त्रं विविध देशमेदेन पौण्ड्रवर्धनककासाकुलकादि / पात्रमपि पुरिकांगन्धधारकप्रतिग्रहकादिविचित्रं रक्तपीतबिन्दुसितपट्टकादिप्रचितं महाधनं-महामूल्यम् / एवमादिना उपकरणपरिग्रहेण युक्तो ममेद स्वं अहमस्य स्वामीत्युपजातमूर्छः पर्याप्तोपकरणोऽपि भूयो बहुविशेषोपकरणकाङ्क्षायुक्तः बहुविशेषो यत्र मृदु-दृढ-श्लक्ष्ण-घन-निचित-रुचिरवणादि तादृश्युपकरणे लब्धव्ये जातकाङ्क्षो-जाताभिलाषः / सर्वदा च तस्योपकरणस्य प्रतिसंस्कारं प्रक्षालनदशाबन्धघटिकासंवेष्टनादिकं सेवमानस्तच्छील उपकरणबकुशः // भा०-शरीराभिष्वक्तचित्तो विभूषार्थ तत्प्रतिसंस्कारसेवी शरीरबकुशः। प्रतिसेवनाकुशीलो मूलगुणानविराधयन्, उत्तरगुणेषु काश्चिद् विराधनां प्रतिसेवते / कषायकुशील-निर्ग्रन्थ-स्नातकानां प्रतिसेवना नास्ति / टी-शरीरबकुशस्तु शरीराभिष्वक्तेत्यादि / तस्य-शरीरस्याभ्यञ्जनोद्वर्तनस्नानादिक प्रतिसंस्कार सेवमानस्तच्छील एव भवति / एष चोत्तरगुणभ्रंशकारी, न तु मूलगुणान् विराधयति / यथोक्तमागमे-“बैउसे पुच्छा / गोयमा ! नो मूलगुणपडिसेवी होज्जा उत्तरगुणपडिसेवी होज्जा / उत्तरगुणे पडिसेवमाणे दसविहस्स पञ्चक्खाणस्स अण्णयरं पडिसेवेज्जा"। सेवकः किं मूलगुणप्रतिसेवक उत्तरगुणप्रतिसेवकः? मूलगुणप्रतिसेवकः उत्तरगुणप्रतिसेवकश्च / मूलगुणान् प्रतिसेवमाना पञ्चानां महाव्रतानां अन्यतरं प्रतिसेवेत उत्तरगुणान् प्रतिसेनमानो दशविधस्य प्रत्याख्यानस्य अन्यतर प्रतिसेवेत / 'कागधारक' इति ग-पाठः / 2 छाया बकुशे पृच्छा / गौतम! नो मूलगुणप्रतिसेवी भवेत्, उत्तरगुणप्रतिसेवी भवेत् / उत्तरगुणान् प्रतिसेवमानो दशविधस्य प्रत्याख्यानस्यान्यतरं प्रतिसेवेत / 3 'सेवए' इति भगवत्यां (श० 25, 20 6, सू० 755) /