________________ 290 तत्वार्थाधिगमसूत्रम् [अध्यायः 9 सम्परायस्य निर्ग्रन्थ-स्नातकयोश्च शुक्लैव केवला भवति / अयोगः शैलेशीप्रतिपन्नोऽलेश्यो भवति॥ टी-लेश्याः पूर्वोक्तनिर्वचनाः / उत्तराः पारमर्षक्रमप्रामाण्यात् पुलाकस्य तैजसीपद्म-शुक्लनामानस्तिस्रो भवन्ति / बकुश-प्रतिसेवनाकुशीलयोः सर्वाः। कियन्त्यः ? सर्वाः षडपीत्याह / परिहारविशुद्धिसंयमप्राप्तस्य कषायकुशीलस्य एता एव तिस्रः / सूक्ष्मसम्परायसंयमप्राप्तस्य कपायकुशीलस्य तथा 'निर्ग्रन्थस्य सयोगस्नातकस्य च त्रयाणामप्येषां शुक्लैव, केवला-अन्यलेश्यानिरपेक्षेति / शैलेशीप्रतिपन्नस्त्वयोगकेवली नियमेनालेश्य एव भवति॥ भा०-उपपातः। पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे / बकुश-प्रतिसेवनाकुशीलयोविंशतिसागरोपमस्थितिष्वारणा-ऽच्युतकल्पयोः / कषायकुशीलनिर्ग्रन्थयोस्त्रयस्त्रिंशत्सागरोपमस्थितिषु देवेषु सर्वार्थसिद्धे / सर्वेषामपि जघन्या पल्योपमपृथक्त्वस्थितिषु सौधर्मे / स्नातकस्य निर्वाणमिति // टी०-उपपात इति उपपत्तिः-जन्मान्तरप्राप्तिः, पूर्वजन्मपरित्यागेन स्थानान्तरप्राप्तिरित्यर्थः / सहस्रारेऽष्टादशसागरोपमा स्थितिरुत्कृष्टा / तत्र पुलाकस्योत्पत्तिर्जन्ममरणोत्तरकालम् / यकुश-प्रतिसेवनाकुशीलयोः अच्युते छाविंशतिसागरोपमस्थितिषूत्पत्तिः / कषायकुशील-निर्ग्रन्थयोः सर्वार्थसिद्धविमाने त्रयस्त्रिंशत्सागरोपमस्थितिषत्पत्तिः। सर्वेषां पुलाकादीनां शमितकषायाणां प्रथमकल्पे जघन्येन द्विप्रभृत्या नवभ्यः पृथक्त्वपरिभाषात् स्थितिकेषु देवेषूत्पत्तिः / स्नातकस्य निर्वाणस्थानप्राप्तिरेवेति स्थानद्वारमधुना चिन्त्यते भा०-स्थानम् असङ्ख्येयानि संयमस्थानानि कषायनिमित्तानि भवन्ति / तत्र सर्वजघन्यानि लब्धिस्थानानि पुलाक-कषायकुशीलयोः / तौ युगपदसङ्ख्ये यानि स्थानानि गच्छतः। ततः पुलाको व्युच्छिद्यते / कषायकुशीनिर्ग्रन्धानामध्य- लस्तु असङ्ख्ययानि स्थानान्येकको गच्छति। ततः कषायकुशीबसायस्थानानि " ल-प्रतिसेवनाकुशील-बकुशा युगपदसङ्ख्येयानि संयमस्थानानि गच्छन्ति / ततो बकुशो व्युच्छिद्यते / ततोऽसङ्ख्ययानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते। ततोऽसङ्ख्येयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते / अत ऊर्ध्वमकपायस्थानानि निर्ग्रन्थः प्रतिपद्यते / सोऽप्यम ख्येयानि स्थानानि गत्वा व्युच्छिद्यते। अत ऊर्ध्वमेकमेव स्थानं गत्वा निग्रन्थस्नातको निर्वाणं प्राप्नोति / एषां संयमलब्धिरनन्तानन्तगुणा भवतीति // 49 // 1. निम्रन्थकुशीलस्य ' इति ग-पाठः / 2 स्थित्युत्पत्तिः' इति च-पाठः। 3 'कषान्तानाः इति ग-पाठः / 'कर्ध्वमेव इति ग-पाठः। 5 एतेषां इति ' ग-पाठः।