________________ 285 सूत्र 49]. स्वोपज्ञभाष्य-टीकालङ्कृतम् "ध्यान ह्यभिसन्धान, ध्यानेन च कर्मणो भवति मोक्षः। ध्यानेन ततः क्षपयति, कर्माणि स पञ्चमात्रेण ॥१॥"-आर्या पञ्च मात्रा यत्र ध्यान इति / एवंविधावस्थाः शैलेशीप्रतिपन्ना उच्यन्ते तदा चेमाः प्रकृतीः क्षपयन्ति " स्पर्शरसवर्णगन्धा-ऽनादेयनिर्माणदेहनामानि / संहननाङ्गोपाङ्गा-नि तथा संस्थाननामानि ॥१॥-आर्या नृसुरगतिप्रायोग्ये, सुरंगत्युपघातमगुरुलघुता च / उच्छ्वासपराघाता, पर्याप्तशुभाशुभानि तथा // 2 // -, दुर्भगदुःस्वरमुच्चै-नींचैर्गोत्रस्थिरास्थिराणि तथा। अन्यतरवेद्यखगति, प्रत्येकशरीरमयशश्च // 3 // -, प्रकृतय एता द्विचरम-समये तस्य क्षयं समुपयान्ति / क्षपयत्ययोगिवेद्या-श्च ततः प्रकृतीः स चरमान्ते // 4 // -, तैजसशरीरबन्धो-ऽपि तस्य नामक्षयात् क्षयं याति / औदारिकबन्धो-ऽपि, क्षीयत आयुःक्षयात् तस्य // 5 // -, एवमशेषकर्मक्षयान्मुक्तो भवति // 48 // एवमेते पुलाकादयोऽभिहिताः पञ्च निर्ग्रन्थाः स्वरूपतः। अथैषां कः कस्य संयमविकल्पः श्रुतादिविकल्पो वेत्याहमनुगमविकल्पा- सूत्रम्-संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपाएकम् .. तस्थानविकल्पतः साध्याः // 9-49 // टी.-संयमादयोऽष्टौ स्थानान्ताः कृतद्वन्द्वा विकल्पशब्देन सह समस्यन्ते / संयमादीनां विकल्पाः-चरणभेदाः तैः संयमादिविकल्पैः। संयमादिविकल्पतः संयमादिकारणैर्हेतुमिः साध्याः-साधनीयाः प्रतिविशिष्टाः संयमादिरूपेण / केचित् तु विकल्पव्याख्याऽन्तरम् शब्दं स्थानसनिधावेव नियुञ्जते स्थानस्य विकल्पाः संयमस्थानभेदा इति / भा०-एते पुलाकादयः पञ्च निर्ग्रन्थविशेषाः एभिः संयमादिभिरनुयोगविकल्पैः साध्या भवन्ति / तद्यथा-संयमः / कः कस्मिन् संयमे भवतीति / उच्यते-पुलाक-बकुश-प्रतिसेवनाकुशीला द्वयोः संयमयोःसामयिके छेदोपस्थाप्ये च, कषायकुशीला द्वयोः परिहारविशुद्धौ सूक्ष्मसंपराये च, निर्ग्रन्थ-सातको एकस्मिन् यथाख्यातसंयमे / / 'गमविकल्पैः' इति घ-टी-पाठः /