________________ 284 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 9 तत्र-तयोः प्रतिसेवनाकुशीला नैर्ग्रन्थं प्रति प्रस्थिता अनियमितेन्द्रिया-इन्द्रियनियमशून्या रूपादिविषयेक्षणकृतादराः कथश्चित्-केनचित् प्रकारेण व्याजमुपदिश्य किश्चिदेवोत्तरगुणेषु पिण्डविशुद्धि-समिति-भावना-तपः-प्रतिमा-ऽभिग्रहादिषु विराधयन्तः-खण्डयन्तोऽतिचरन्तः सर्वज्ञाज्ञोल्लचनमाचरन्ति ते प्रतिसेवनाकुशीलाः // कषायकुशीलानाचष्टे भा०-येषां तु संयतानां सतां कथश्चित् सज्वलनकषाया उदीयन्ते ते कषायकुशीलाः // टी-येषां त्वित्यादि / येषां संयतानां सतां-मूलोत्तरगुणसम्पदुपेतानामपि भवतां कथञ्चित् केन प्रकारेण स्वल्पेनापि हेतुना कुड्यकाष्ठलोष्टविषमकाश्यपीप्रस्खलनादिना सज्वलनकषायाः क्रोधादयः उदीयन्ते-उदयमुपनीयन्ते, किञ्चिदेव कारणमासाद्योदय गच्छन्ति ते कषायकुशीलाः॥ सम्प्रति निम्रन्थनिरूपणार्थमाह __ भा०-ये वीतरागच्छद्मस्था,ईर्यापथप्राप्तास्ते निर्ग्रन्थाः। ईर्यायाः पर्यायाः ईर्या योगः, पन्थाः संयमः, योगसंयमप्राप्ता इत्यर्थः / टी०-ये वीतरागच्छद्मस्था इत्यादि / उपशमितक्षपितमोहजाला विगताशेषरागद्वेषमोहत्वात् एकादश-द्वादशगुणस्थानवर्तिनस्ते वीतरागच्छद्मस्थाः। छद्म-आवरणं तत्र स्थिताः। सावरणज्ञानाः छद्मस्थाः / ईयोपथं प्राप्ताः अकषायत्वादुपशान्तकषायाः क्षीणकपायाश्च एकसमयावस्थायीर्यापथं कर्म बनन्ति / ईर्यायाः पन्था ईर्यापथः। ईर्या व्यापारो योग इति पर्यायाः। तस्य व्यापारस्य विषयः-पन्थाः स च संयमः सप्तदशप्रकारः। एनमेवार्थ स्पष्टतरमानष्टे-योगसंयमप्राप्ता इत्यर्थः / योगेन-विशिष्टक्रियया विशिष्टमेव संयम यथाख्याताख्यं प्राप्ता इति यावत् / ते निर्ग्रन्था विकीर्णमोहग्रन्थय इत्यर्थः // भा०–सयोगाः शैलेशीप्रतिपन्नाश्च केवलिनः स्नातका इति // 48 // टी.-सयोगा इत्यादिना स्नातकनिरूपणं करोति / योगः-कायादिचेष्टा / सह योगेन सयोगाः त्रयोदशगुणस्थानवर्तिनो निरस्तघातिकर्मचतुष्टयाः केवलिनः स्नातकाः, प्रक्षालितसकलघातिकर्ममलपटला इत्यर्थः / शैलेशीप्रतिपन्नाश्चेत्यनेनायोगकेवलिन उपात्ताः। ते च केवलिनो विहृत्य कश्चित् कालं ततोऽकृतसमुद्धाताः समुद्धाताद् विनिवृत्ताः क्रमेण योगान् निरुन्धन्ति वा / स चोक्त एव क्रमः प्राक् / निरुद्धयोगाश्च व्युपरतक्रियानिवर्तिनो ध्यानेन शेषकर्माशान् क्षपयन्ति / यथोक्तम्