________________ सूत्र 48 स्वोपज्ञभाष्य-टीकालङ्कृतम् 283 - बकुश इति शबलपर्यायः / शबलो वर्णव्यतिकरः कचिद् वलक्षः कचित् कृष्णः कचिद् रक्तः एक एव पटः / एवमयमपि निर्ग्रन्थः। सातिचारत्वाच्चरणपटं शबलयति बकुशशब्दाथा विशुद्धयशुद्धिव्यतिकीर्णस्वभावं करोति / स च द्विधा-शरीरोपकरणभेदेन / तदाह वृत्ति(भाष्य?)कारः-नैर्ग्रन्थ्यं प्रति प्रस्थिता इत्यादि / निर्ग्रन्थस्य भावो नैर्ग्रन्थ्य अष्टाविंशतिविधमोहनीयक्षयस्तत् प्रति प्रस्थिताः-प्रवृत्तास्तदभिमुखास्तत्क्षशावश्यम् याकाङ्गिणः। शरीरम्-अङ्गोपाङ्गसङ्घातः उपकारित्वादुपकरणं वस्त्रपाप्रादि तद्विषयां विभूषाम्-अलङ्कृतिमनुवर्तन्ते, तच्छीलाश्चेति / शरीरे तावदनागुप्तव्यतिरेकेण कर-चरण-वदनप्रक्षालनमक्षि-कर्ण-नासिकावयवेभ्यो दूपिकामलाद्यपनयनं शारीरबकुशस्य / स्य दन्तपवनभ(म्र)क्षणं केशसंस्कारं च विभूषार्थमाचरन् शारीरबकुशो भवति / स्वरूपम् उपकरणबकुशस्तु अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिश्वोक्षकवास:प्रियः पात्रदण्डकाद्यपि तैलपात्रया(त्र्या) उज्ज्वलीकृत्य विभूषार्थमनुवर्तमानो बिभर्ति ऋद्धीः प्रभूतवस्त्रपात्रादिकास्ता इच्छन्ति कामयन्ते तत्कामाः यशःख्यातिगुणवन्तो उपकरणबकुशस्य विशिष्टाः साधवः इत्येवंविधः प्रवादस्तच्च यशः कामयन्त इति ऋद्धियस्वरूपम् शस्कामाः। सातगौरवमाश्रिता इति / सुखशीलता-सातगौरवं तदाश्रिताः / आदरवचनो गौरवशब्दः / सुखे य आदरः तदवाप्तिव्यापारप्रवणता तदाश्रिताः नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यताः। अविविक्ता इति नासंयमात् पृथग्भूता घृष्टजवाः तैलादिकृतशरीरमृजाः कर्तरिकाकल्पितकेशा एवंविधः परिवारो येषां ते अविविक्तपरिवाराः सर्वदेशच्छेदाह्नतीचारजनितशबलेन वैचित्र्येण युक्ताः एवंविधा निर्ग्रन्थाः बकुशसंज्ञाः // कुशीलस्वरूपनिर्धारणायाह भा० --कुशीला विविधाः-प्रतिसेवनाकुशीलाः कषायकुशीलाश्च / तत्र कुशीलस्य वैविध्य प्रतिसेवनाकुशीला नैग्रेन्थ्यं प्रति प्रस्थिता अनियमितेन्द्रियाः प्रतिसेवनाकुशील- कथञ्चित् किश्चिदुत्तरगुणेषु विराधयन्तश्वरन्ति ते' प्रतिसेवनास्य स्वरूपं च कुशलाः॥ टी-कुशीला द्विविधा इत्यादि / अष्टादशसहस्रभेदं शीलं तदुत्तरगुणभङ्गेन केनचित् कषायोदयेन वा कुत्सितं येषां ते कुशीला द्विप्रकाराः / तत्प्रकाराख्यानायाह-प्रतिसेवनाकुशीलाः कषायकुशीलाश्चेति / आसेवन-भजनं प्रतिसेवना तया कुत्सितं शीलमेपामिति प्रतिसेवनाकुशीलाः / कषायाः संज्वलनाख्यास्तदुदयात् कुत्सितं शीलमेषामिति कषायकुशीलाः / १'ते' इत्यूनो ग-पाठः।