________________ 282 तत्वार्थाधिगमसूत्रम् [ अध्यायः 9 कलापः श्रावकोऽसङ्ख्येयगुणनिर्जरो भवति यांवन्ति कर्माणि निर्जरयति सम्यग्दृष्टिः सम्यग्दर्शनप्रभावात् तत्कर्मापरेणासङ्ख्येयराशिना गुणितं तद् यावद् भवति तावद् देशविरतः क्षपयति / एवं पूर्वस्मात् पूर्वस्मादुत्तरोत्तरोऽसङ्ख्येयगुणनिजेरो भवतीति दर्शयति श्रावकाद विरतो विरतादनन्तानुबन्धिवियोजक इत्येवं शेषा यावन्जिनः सर्वेभ्य एवासङ्ख्येयगुणनिर्जर इति / अस्य वैचित्र्यभाजः संवरचारित्रस्य के स्वामिन इति तनिर्दिदिक्षयाऽऽह सूत्रम्-पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातका निर्ग्रन्थानां पञ्चविधत्वम् निर्ग्रन्थाः // 9-48 // भा०—पुलाको यकुशः कुशीलो निर्ग्रन्थः स्नातक इत्येते पञ्च निर्ग्रन्थविशेषा भवन्ति // टी-पुलाकादयः पश्चान्वर्थसञ्ज्ञका निर्ग्रन्थाः स्वामिनः / तद्विवरणार्थमाह-पुलाकः बकुशः कुशीलः निर्ग्रन्थः स्नातक इति / एते पञ्च निर्ग्रन्थविशेषा-भेदा भवन्ति निर्ग्रन्थानामिति / ग्रन्थः कर्माष्टकप्रकारं मिथ्यात्वा-ऽविरति-(कषाय)दुष्प्रणिहितयोगाश्च / . तज्जये प्रवृत्तानि निर्ग्रन्थानि / निर्गच्छद्रन्था निर्ग्रन्थाः धर्मोपकरणाहते निग्रन्थशब्दार्थः परित्यक्तबाह्याभ्यन्तरोपधयो निर्ग्रन्थाः / पुलाकादिस्वरूपनिरूपणायाह भा०-तत्र सततमप्रतिपातिनो जिनोक्तादागमान्निर्ग्रन्थपुलाकाः / 'नैपुलाक-बकुशयोः न्थ्यं प्रति प्रस्थिताः शरीरोपकरणविभूषाऽनुवर्तिनः ऋद्धियश स्वरूपम् स्कामाः सातगौरवाश्रिताः अविविक्तपरिवाराः छेदशवलयुक्ता निर्ग्रन्था षकुशाः॥ टी०-तत्र सततमित्यादि / तत्र-तेषु पञ्चसु निर्ग्रन्थेषु पुलांकास्तावदेवविधाः / पुलाको निःसार इति प्ररूढं लोके / पलञ्जिस्तन्दुलकणशून्या पुलाकः / पुलाकशब्दाथा एवं निर्ग्रन्थोऽपि लब्धिमुत्पन्नां तपःश्रुताभ्यां हेतुभ्यामुपजीवन् सकलसंयमगलनात् पलञ्जिरूपं निःसारमात्मानं करोति / ज्ञानदर्शनचरणानि च सारः तदपगमानिःसारः। जिनप्रणीतादागमाद्धेतुतः, सदैवाप्रतिपातिन आगमाश्च सम्यग्दर्शनमूलज्ञानचरणे निर्वाणहेतू इत्यस्मादपरिभ्रष्टाः श्रद्दधाना ज्ञानानुसारेण क्रियाऽनुष्ठायिनो लब्धिमुपजीवन्तो निर्ग्रन्थाः पुलाका भवन्ति / उपजीवन्तश्च निःसारतामात्मनः कुर्वन्तीति ग्राह्यम् / सततमप्रमादिन इत्यपरे पठन्ति / जिनोक्ताद् वाऽऽगमाद्धेतुभूतान्मुक्तिसाधनेषु न प्रमाद्यन्ति व्याख्याभेदः याभदः जातुचिदिति // १यावत् कर्म' इति च-पाठः। 2 'दिदिक्षुराह' इति च-पाठः। 3 'पञ्चविधा' इति ग-पाठः। 4 शब्दसाम्यार्थ विलोक्यतो तत्वार्थराजवार्तिकं (पृ. 358) /