________________ सूत्र 47]. स्वोपज्ञभाष्य टीकालङ्कृतम् 281 प्रायश्चित्तादि तदनुष्ठानात् / अनुभावतश्च। अनुभावो विपाकस्तस्माच विपाकात् कर्मणः परिशाटो निर्जरा भवतीति / एवमनूद्य निर्जरां सन्देहस्थानमुपन्यस्यति / यस्मादेवं तस्मात् किं सम्यग्दृष्टयः सर्वे एव समनिर्जरास्तुल्यमेव कर्म निर्जरयन्ति आहोस्विदस्ति कश्चित् प्रतिविशेष इति ? / विशेषो विषमनिर्जरण, न तुल्यनिर्जरत्वमिति / आचार्योऽपि हृदि व्यवस्थाप्य विषमनिर्जरणामाह-अत्रोच्यत इति / यत् तत्त्वं तदाख्यायत इत्यर्थः॥ सूत्रम्-सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोप शमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसङ्ख्येविषमाणि निर्जरणानि . यगुणनिर्जराः॥९-४७॥ भा०-सम्यग्दृष्टिः, श्रावकः, विरतः, अनन्तानुबन्धिवियोजकः, दर्शनमोहक्षपकः, मोहोपशमकः, उपशान्तमोहः, मोहक्षपकः, क्षीणमोहः, जिनः इत्येते दश क्रमशः असङ्ख्येयगुणनिर्जरा भवन्ति / तद्यथा-सम्यग्दृष्टेः श्रावकोऽसङ्ख्येयगुणनिर्जरः, श्रावकाद् विरतः, विरतादनन्तानुबन्धिवियोजकः, इत्येवं शेषाः // 47 // - टी०–सम्यग्दृष्टिरिति / तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तद्युक्तः सम्यग्दृष्टिः, सम्यग्दर्शनमात्रभागित्यर्थः / आचार्यप्रभृतीन् पर्युपासीनः प्रवचनसारं शृणोतीति श्रावकः / शृण्वंश्च सकल __चरणकरणाक्षमो गृहस्थयोग्यमनुगुणशिक्षावतलक्षणं धर्ममनुतिष्ठति / यथाश्रावकस्य व्याख्या, वाशक्ति वा द्वादशप्रकारस्य धर्मस्यैकदेशानुष्ठाय्यपि श्रावक एव / विरतस्तु साधुधर्मानुष्ठायी सर्वस्मात् प्राणातिपाताद् यावज्जीवं विरतः, एवं मृषावादादिभ्योऽपि; अनन्तः संसारस्तदनुबन्धिनोऽनन्ताः क्रोधादयस्तान् वियोजयति क्षपयत्युपशमयति वा अनन्तवियोजकः / दर्शनमोहक्षपक इति / दर्शनमोहोऽनन्तानुबन्धिनश्चत्वारः सम्यग्-मिथ्यात्व-तदुभयानि च / अस्य सप्तविधस्य दर्शनमोहस्य क्षपकः / तथाऽस्यैवोपशमकः / मोहोऽष्टाविंशतिभेदः षोडश कषायाः सम्यक्त्व-मिथ्यात्व-सम्यरिमथ्यात्व-हास्यरति-अरति-भय-शोक-जुगुप्सा-स्त्री-पु-नपुंसकवेदाश्च / अस्योपशमनादुपशान्तमोहः / अस्यैव सकलस्य क्षपणान्मोहक्षपकः / क्षपणोपशमनक्रियाविशिष्टयोर्ग्रहणम् / क्षपितनिरवशेषमोहः क्षीणमोहः / स चतुर्विधघातिकर्मजयनाजिनः केवली। एते सम्यग्दृष्ट्यादयो जिनावसाना दश क्रमेण क्रमशः-परिपाट्या यथोपन्यस्तास्तथैवासङ्ख्येयगुणनिर्जरा भवन्ति, न तु तुल्यनिर्जरा इत्यर्थः / तामेवासङ्ख्येयगुणां निर्जरां स्पष्टयति भाष्यकारः-सम्यरदृष्टेः श्रावकोऽसङ्ख्येयगुणनिर्जर इत्यादिना / केवलसम्यग्दृष्टेः प्रतिपन्नाणुव्रतादि १.जिनानां' इति ग-पाठः।